________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२५१
[घरसामी] गृह-स्वामी । गृहस्य स्वामी । अनेन गृहस्य घरः । 'सर्वत्र ल-व०' (२२७९) व्लुक् । प्रथमा सि । 'अन्त्य०' (१११) स्लुक् घरसामी ।
[रायहरं ] राज-गृह । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन गृहस्य घरः । 'ख-घ-थ-ध-भाम्' (१।१८७) घ० → ह० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः रायहरं ।
[गहवई ] गृह-पति । 'ऋतोऽत्' (१।१२६) गृ० → ग० । 'पो वः' (१२२३१) पस्य व० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् गहवई ॥१४४॥
शीलाद्यर्थस्येरः ॥ ८।२।१४५ ॥ शील-धर्म-साध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ।। हसनशीलः = हसिरो । रोविरो । लज्जिरो । जम्पिरो। वेविरो । भमिरो । ऊससिरो ॥ केचित् तन एव इरमाहस्तेषां नमिर - गमिरादयो न सिध्यन्ति । तनोऽत्र रादिना बाधितत्वात् ।। [शीलाद्यर्थस्येरः] शीलाद्यर्थ षष्ठी ङस् । इर प्रथमा सि ।
[हसिरो] 'हसे हसने' (५४५) हस् । हसतीत्येवंशीलः - हसतीत्येवंधर्मः - हसतीत्येवंसाधुः = हसिरो । 'तृन्शील-धर्म-साधुषु' (५।२।२७) तृन्प्रत्ययः । अनेन तृन्० → इर इति । 'लोकात्' (१।१।३) हसिर । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० हसिरो।
[रोविरो] 'रुदृक् अश्रुविमोचने' (१०८७) रुद् । रोदितीत्येवंशील:- रोदितीत्येवंधर्मः - रोदितीत्येवंसाधुः = रोविरो। 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० । 'युवर्णस्य गुणः' (४।२३७) रु० → रो० । अनेन तृन्० → इर० । 'लोकात्' (१।१।३) रुदिर इति जाते 'रुद-नमोर्वः' (४।२२६) दि० → वि० । प्रथमा सि । 'अतः सेोंः' (३।२) सि० → डो० → ओ० रोविरो ।
[लज्जिरो] 'ओलस्जैति वीडे' (१४७०) लस्ज् । लज्जते इत्येवंशीलः - लज्जते इत्येवंधर्मः-लज्जते इत्येवंसाधुर्वा इति लज्जिरो । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० । प्रथमा सि । 'क-ग-ट-ड०' (२७७) स्लुक्। 'अनादौ०' (२१८९) द्वित्वं - ज्ज० । अनेन तृन्० → इर० । 'लोकात्' (१।१।३) लज्जिर । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० लज्जिरो ।
[जम्पिरो] 'कथण वाक्यप्रबन्धे' (१८८१) कथ । कथयतीत्येवंशीलो धर्मो वा-साधुर्वा = जम्पिरो । 'तृन् शीलधर्म-साधुषु' (५।२।२७) तृन्प्र० । प्रथमा सि । कथेर्वज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जम्प-सीस-साहाः' (४।२) इत्यनेन कथ० → जम्प० इति । अनेन तृन्० → इर० । 'लोकात्' (१।१।३) जम्पिर । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० जम्पिरो ।
[वेविरो] 'टुवेपङ चलने' (७५४) वेप । वेपते इत्येवंशीलो धर्मो वा - साधुर्वा = वेविरो । 'चालशब्दार्थादकर्मकात्' (५।२।४३) अनप्र० । अनेन अन० → इर० । 'लोकात्' (१।१।३) वेपिर इति स्थिते 'पो वः' (१।२३१) पि० → वि० । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० वेविरो।
[भमिरो] 'भ्रमू चलने' (९७०) भ्रम् । भ्रमतीत्येवंशीलो धर्मो वा-साधुर्वा = भमिरो । 'शमष्टकाद् घिनण्' (५।२।४९) घिनण्प्र० । प्रथमा सि । अनेन घिनण्० → इर० । 'लोकात्' (१।१।३) भ्रमिर । 'सर्वत्र ल-व-राम०' (२७९) भ्रमध्याद् रलुक । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० भमिरो ।