________________
२५०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[अधसः] अधस् षष्ठी ङस् । [हेहूं] हेट्ठ प्रथमा सि ।
[हेटुं] अधस् । अनेन अधस्० → हे?० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः हेढें ॥१४॥
मातृ-पितुः स्वसुः सिआ-छौ ॥ ८।२।१४२ ॥ मातृ-पितृभ्यां परस्य स्वसृशब्दस्य सिआ-छा इत्यादेशौ भवतः ॥ माउसिआ माउच्छा । पिउसिआ पिउच्छा ॥ [मातृपितुः स्वसुः] मातृपितृ पञ्चमी ङसि । स्वसृ षष्ठी ङस् । [सिआछौ ] सिआ-छा प्रथमा औ ।
[माउसिआ] मातृस्वसृ । अनेन स्वसृ० → सिआ० । 'गौणाऽन्त्यस्य' (१११३४) तृ० → तु० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् माउसिआ।
[माउच्छा ] मातृस्वसृ । अनेन स्वसृ० → छा० । 'गौणाऽन्त्यस्य' (१।१३४) तृ० → तु० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'आन्तान्ताड्डाः ' (४।४३२) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१।१।३) माउच्छा ।
[पिउसिआ] पितृस्वसृ । अनेन स्वसृ० → सिआ० । शेषं "माउसिआ"वत् पिउसिआ । [पिउच्छा] पितृस्वसृ । अनेन स्वसृ० → छा० । शेषं "माउच्छा" वत् पिउच्छा ॥१४२॥
तिर्यचस्तिरिच्छिः ॥ ८।२।१४३ ॥ तिर्यचशब्दस्य तिरिच्छि[:] इत्यादेशो भवति । तिरिच्छि पेच्छइ ॥ आर्षे - तिरिआ इत्यादेशोऽपि । तिरिआ ॥ [तिर्यचस्तिरिच्छि:] तिर्यच षष्ठी ङस् । तिरिच्छि प्रथमा सि ।
[तिरिच्छि पेच्छइ, तिरिआ] तिर्यच् । अनेन तिर्यच० → तिरिच्छि० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'दृशं प्रेक्षणे' (४९५) दृश् । 'दृशो निअच्छ - पेच्छा०' (४।१८१) दृश्० → पेच्छ आदेशः । वर्त० तिव् । 'त्यादीनामाद्यत्रय०' (३३१३९) तिव्० → इ० पेच्छइ । आर्षे - तिरिआ ॥१४३॥
गृहस्य घरोऽपतौ ॥ ८।२।१४४ ॥ गृहशब्दस्य घर इत्यादेशो भवति, पतिशब्दश्चेत् परो न भवति ॥ घरो । घर-सामी । राय-हरं ॥ अपताविति किम् ? गह-वई ॥
[गृहस्य] गृह षष्ठी ङस् । [घरोऽपतौ] घर प्रथमा सि । अपति सप्तमी ङि । [घरो] गृह । अनेन गृह० → घर आदेशः । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० घरो ।
१. B. C. तिर्यच् तिरिच्छि ।