________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२५३
[घेत्तूण ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । ग्रहणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वा० → तूण० । 'क्त्वा-तुम्-तव्येषु घेत्' (४।२१०) ग्रह → घेत्० । 'लोकात्' (१।१।३) घेत्तूण ।
[काऊण] 'डुबंग करणे' (८८८) कृ । करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वा० → तूण० । 'आः कृगो भूत-भविष्यतोश्च' (४।२१४) कृ० → का० । 'क-ग-च-ज०' (१।१७७) तूणमध्यात् त्लुक् । 'लोकात' (१।१३) काऊण ।
[भेत्तुआण ] 'भिदूंपी विदारणे' (१४७७) भिद् । भेदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'युवर्णस्य गुणः' (४।२३७) भि० → भे० । अनेन त्वा० → तुआण० । 'अघोषे प्रथमोऽशिटः' (११३५०) द्० → त्० । 'लोकात्' (१।१।३) भेत्तुआण ।
[सोउआण] इं (११) - दुं (१२) हूँ (१३) - शुं (१४) - "लुं गतौ' (१५) स्रु । स्रवणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वा० → तुआण० । 'युवर्णस्य गुणः' (४।२३७) स्रु० → स्रो० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् सोउआण ।
[वन्दित्तु] 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । वन्दनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नागमः । अनेन त्वा० →तुम् । "मांसादेर्वा' (१२२९) म्लुक् । 'तैलादौ' (२।९८) द्वित्वं - तु० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) वन्दत्तु इति जाते “एच्च क्त्वा-तुम्०' (३१५७) न्द० → न्दि० वन्दित्तु ।
[वन्दित्ता] वन्दित्वा । 'सर्वत्र ल-व०' (२।७९) व्लुक् । 'अनादौ०' (२१८९) द्वित्वं - ता० → ता० वन्दित्ता ।
[कटु] 'डुकंग करणे' (८८८) कृ । करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वाप्रत्ययस्य तुम्० । 'ऋतोऽत्' (१।१२६) कृ० → कः । आर्षत्वात् कटु इति ॥१४६।।
इदमर्थस्य केरः ॥ ८।२।१४७ ॥ इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति ॥ युष्मदीयः → तुम्हकेरो । अस्मदीयः → अम्हकेरो ॥ न च भवति - मईअपक्खे पाणिणीआ ॥ . [इदमर्थस्य केरः] इदमर्थ षष्ठी ङस् । केर प्रथमा सि ।
[तुम्हकेरो] युष्मद् । युष्माकमयं = युष्मदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । प्रथमा सि । 'लोकात्' (१।१३) युष्मदीयः । अनेन ईयस्य केरः । 'युष्मद्यर्थपरे तः' (१।२४६) यु० → तु० । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) ष्मस्य म्हः । 'अन्त्य०' (१।११) द्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० तुम्हकेरो।
[अम्हकेरो] अस्मद् । अस्माकमयमिति अस्मदीयः । 'दोरीयः' (६३।३२) ईयप्र० । अनेन ईयस्य केरः । 'अन्त्य०' (१।११) द्लुक् । 'पक्ष्म-श्म-ष्म-स्म०' (२७४) स्मस्य म्हः । प्रथमा सि । 'अत: से?:' (३३२) सि० → डो० → ओ० अम्हकेरो।
१. J. 'श्रृंट् श्रवणे' (१२९६) श्रु । 'सर्वत्र ल०' (२१७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । 'युवर्णस्य गुणः' (४।२३७) सु० → सो० । २. G टि० - 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलुक् ताटि० ।