________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२४७
पूर्वस्य पुरिमः ॥ ८।२।१३५ ॥ पूर्वस्य स्थान पुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं ॥ [पूर्वस्य पुरिमः] पूर्व षष्ठी ङस् । पुरिम प्रथमा सि ।
[पुरिमं पुव्वं] पूर्व । अनेन वा पूर्वस्य स्थाने पुरिम० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पुरिमं । पक्षे-पूर्व । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) वस्य द्वित्वम् । 'हुस्वः संयोगे' (१९८४) पू० → पु० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पुव्वं ॥१३५।।
त्रस्तस्य हित्थ-तौ ॥ ८।२।१३६ ॥ त्रस्तशब्दस्य हित्थ-तट्ठ इत्यादेशौ वा भवतः ॥ हित्थं तटुं तत्थं ॥ [त्रस्तस्य हित्थतटौ] त्रस्त षष्ठी ङस् । हित्थश्च तट्टश्च = हित्थतट्ठौ । प्रथमा औ ।
[हित्यं तद्वं] त्रस्त । अनेन वा त्रस्तस्य हित्थ-तट्ठ । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनु०' (१।२३) अनुस्वारः हित्थं तद्वं ।
[तत्थं ] त्रस्त । 'सर्वत्र०' (२२७९) लुक् । 'स्तस्य थो०' (२०४५) स्तस्य थः । 'अनादौ०' (२८९) थस्य द्वित्वम् । 'द्वितीय तु०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (०२३) अनुस्वारः तत्थं ॥१३६।।
बृहस्पतौ बहो भयः ॥ ८।२।१३७ ॥ बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति । भयस्सई भयप्फई भयप्पई । पक्षे- बहस्सई बहप्फई बहप्पई ॥ 'वा बृहस्पतौ' (१११३८) इति इकारे उकारे च बिहस्सई बिहप्फई बिहप्पई । बुहस्सई बुहप्फई बुहप्पई ॥ [बृहस्पतौ बहो भयः] बृहस्पति सप्तमी ङि । बह् षष्ठी ङस् । भय प्रथमा सि ।
[भयस्सई ] बृहस्पति । 'ऋतोऽत्' (१२१२६) बृ० → ब० । अनेन वा बह इत्यस्य भय इति । 'बृहस्पतिवनस्पत्योः सो वा' (२०६९) स्पस्य सः । 'अनादौ०' (२१८९) द्वित्वं - स्स० । 'क-ग-च-ज०' (१२१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (११११) स्लुक् भयस्सई । ।
[भयप्फई] बृहस्पति । 'ऋतोऽत्' (१।१२६) बृ० → ब० । अनेन वा बह इत्यस्य भय इति । 'ष्प-स्पयोः फः' (२०५३) स्पस्य फः । 'अनादौ०' (२१८९) द्वित्वं - फ्फ० । 'द्वितीय-तुर्ययो०' (२९०) पूर्वफस्य पः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३.१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् भयप्फई ।
[भयप्पई ] बृहस्पति । 'ऋतोऽत्' (१२१२६) बृ० → ब० । अनेन वा बह इत्यस्य भय इति । 'क-ग-ट-ड०' (२७७) स्लुक् । 'अनादौ०' (२।८९) द्वित्वं-प्प० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३३१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् भयप्पई ।
[बहस्सई ] बृहस्पति । 'ऋतोऽत्' (१११२६) बृ० → ब० । 'बृहस्पति - वनस्पत्योः सो वा' (२०६९) स्पस्य स० । 'अनादौ०' (२।८९) द्वित्वं-स्स० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१२११) स्लुक् बहस्सई ।