________________
२४६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[इत्थी थी] स्त्री । अनेन वा स्त्रीशब्दस्य इत्थी । प्रथमा सि । 'अन्त्य०' (१।११) सलुक इत्थी । पक्षे-स्त्री । 'सर्वत्र' ल-व०' (२७९) रलुक् । 'स्तस्य थोऽसमस्त०' (२०४५) स्ती० → थी० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् थी ॥१३०||
धृतेर्दिहिः ॥ ८।२।१३१ ॥ धृतिशब्दस्य दिहिरित्यादेशो वा भवति || दिही धिई ॥ [धृतेर्दिहिः] धृति षष्ठी ङस् । दिहि प्रथमा सि ।
[दिही धिई] धृति । अनेन वा धृतिस्थाने दिहि० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् दिही । पक्षे- धृति । 'इत्कृपादौ' (१।१२८) धृ० → धि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) सूलुक् धिई ॥१३॥
मार्जारस्य मञ्जर-वञ्जरौ ॥ ८१३२ ॥ मार्जारशब्दस्य मञ्जर-वञ्जर इत्यादेशौ वा भवतः ॥ मञ्जरो वञ्जरो । पक्षे-मज्जारो ॥ [मार्जारस्य मञ्जरवारौ] मार्जार षष्ठी ङस् । मञ्जरश्च वारश्च = मञ्जरवञ्जरौ । प्रथमा औ।
[मञ्जरो वञ्जरो] मार्जार । अनेन मार्जारस्य मञ्जर-वञ्जर इत्यादेशौ । प्रथमा सि । 'अतः से?:' (३।२) सि० , डो० → ओ० मञ्जरो वञ्जरो ।
[मज्जारो] मार्जार । 'हस्वः संयोगे' (१८४) मा० → म० । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) जस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० मज्जारो ॥१३२॥
वैडूर्यस्य वेरुलिअं ॥ ८।२।१३३ ॥ वैडूर्यशब्दस्य वेरुलिअं इत्यादेशो वा भवति ॥ वेरुलिअं वेडुज्जं ॥ [वैडूर्यस्य वेरुलिअं] वैडूर्य षष्ठी ङस् । वेरुलिअ प्रथमा सि ।
[वेरुलिअं वेडुज्जं] वैडूर्य । अनेन वैडूर्यस्य वेरुलिअ । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः वेरुलिअं। पक्षे-वैडूर्य । 'ऐत एत्' (१२१४८) वै० → वे० । 'हुस्वः संयोगे' (१८४) डू०
→ डु० । 'द्य-य्य---जः' (२०२४) र्यस्य जः । 'अनादौ०' (२२८९) जस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः वेडुज्ज ॥१३३॥
एण्हि-एत्ताहे इदानीमः ॥८२॥१३४ ॥ अस्य एतावादेशौ वा भवतः ॥ एहि । एत्ताहे । इआणि ।। [एहि - एत्ताहे] एण्हि - एत्ताहे प्रथमा औ।
[इदानीमः] इदानीम् षष्ठी ङस् ।
[एहि एत्ताहे इआणि ] इदानीम् । अनेन वा "इदानीम्" स्थाने एण्हि - एत्ताहे इत्यादेशौ एण्हि - एत्ताहे । पक्षेइदानीम् । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'पानीयादिष्वित्' (१।१०१) नी० → नि० । 'नो णः' (१।२२८) नस्य णः। प्रथमा सि । 'क्लीबे०' (३।२५) सि० , म० । 'मोऽनु०' (१९२३) अनुस्वारः इआणि ॥१३४॥