________________
२४८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[बहप्फई] बृहस्पति । 'ऋतोऽत्' (१२१२६) बृ० → ब० । 'ष्प-स्पयोः फ:' (२०५३) स्पस्य फः । 'अनादौ०' (२१८९) द्वित्वं-फ्फ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् बहप्फई ।
[बहप्पई] बृहस्पति । 'ऋतोऽत्' (१।१२६) बृ० → ब० । 'क-ग-ट-ड०' (२।७७) स्लुक् । 'अनादौ०' (२१८९) द्वित्वं-प्प० । 'क-ग-च-ज०' (१२१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् बहप्पई।
[बिहस्सई] बृहस्पति । 'वा बृहस्पतौ' (१।१३८) बृ० → बि० । 'बृहस्पति-वनस्पत्योः सो वा' (२०६९) स्पस्य स० । 'अनादौ०' (२।८९) द्वित्वं-स्स० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् बिहस्सई।
[बिहप्फई] बृहस्पति । 'वा बृहस्पतौ' (११३८) बृ० → बि० । 'ष्प-स्पयोः फर' (२०५३) स्पस्य फः । 'अनादौ०' (२१८९) द्वित्वं-फ्फ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य प: । 'क-ग-च-ज०' (१२१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् बिहप्फई।
[बिहप्पई ] बृहस्पति । 'वा बृहस्पतौ' (१।१३८) बृ० → बि० । शेषं 'बहप्पई' वत् । [बुहस्सई ] बृहस्पति । 'वा बृहस्पतौ' (१।१३८) बृ० → बु० । शेषं 'बिहस्सई' वत् । [बुहप्फई ] बृहस्पति । ‘वा बृहस्पतौ' (१।१३८) बृ० → बु० । शेषं 'बिहप्फई' वत् । [बुहप्पई ] बृहस्पति । 'वा बृहस्पतौ' (१११३८) बृ० → बु० । शेषं 'बिहप्पई' वत् ॥१३७॥ मलिनोभय-शुक्ति-छुना-ऽऽरब्ध-पदातेर्मइला-ऽवह-सिप्पि-छिक्का-ऽऽढत्त-पाइक्कं ॥ ८।२।१३८ ॥ मलिनादीनां यथासंख्यं मइलादय आदेशा वा भवन्ति ॥
मलिन → मइलं मलिणं । उभय → अवहं । उवहमित्यपि केचित् । अवहोआसं । उभयबलं । आर्षे-उभयोकालं । शुक्ति → सिप्पी सुत्ती । छुस → छिक्को छुत्तो । आरब्ध → आढत्तो आरद्धो । पदाति - पाइक्को पयाई ॥
[मलिनोभयशुक्तिछुसाऽऽरब्धपदातेः] मलिनं च उभयं च शुक्तिश्च छुप्तश्च आरब्धश्च पदातिश्च = मलिनोभयशुक्तिछुप्ताऽऽरब्धपदाति, तस्य = मलिनोभयशुक्तिछुप्ताऽऽरब्धपदातेः ।
[मइलाऽवहसिप्पिछिकाऽऽढत्तपाइक्वं] मइलं च अवहं च सिपिश्च छिक्कश्च आढत्तश्च पाइक्कश्च = मइलाऽवहसिप्पिछिक्काऽऽढत्तपाइक्कम् ।
[मइल मलिणं] मलिन । अनेन वा मलिनशब्दस्य मइल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (०२३) अनुस्वारः मइलं । पक्षे-मलिन । 'नो णः' (११२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः मलिणं । __ [अवहं उवहं] उभय । अनेन वा उभयस्य अवह इति । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अवहं । केचित् उवहमपीच्छति - उवहं ।
[अवहोआसं उभयबलं उभयोकालं] उभयावकाश । अनेन वा उभयस्य अवह इत्यादेशः । 'अवापोते' (१।१७२) अवस्य ओ० । 'लुक् (१।१०) हमध्यादलोपः । 'लोकात्' (११३) ह० → ह । 'क-ग-च-ज०' (१११७७) क्लुक् ।