________________
अष्टमाध्यायस्य प्रथमः पादः ॥
न श्रदुदोः ॥ ८।१।१२ ॥ श्रद्-उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सद्दहि ॥ सद्धा । उग्गयं । उन्नयं ॥ [न श्रदुदोः ] न प्रथमा सि । श्रच्च उच्च = श्रदुदौ, तयोः = श्रदुदोः । षष्ठी ओस् ।
[सद्दहिअं] श्रत्पूर्व० 'दुधांग्क् धारणे च' (११३९) धा । श्रद्धीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त। 'श्रदो धो दहः' (४९) धा० → दह० । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । 'व्यञ्जना०' (४।२३९) अत् । 'ते' (३।१५६) ह० → हि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे स्वरा०' (३।२५) सि० → म्० । मोऽनु०' (१९२३) अनुस्वारः सद्दहिअं।
[सद्धा] श्रदअव्ययपर्व० 'डधांगक धारणे च' (११३९) धा। श्रद्धानं = श्रद्धा । 'भिदादयः' (५।३।१०८) अप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलुक् । बाहुलकान्न 'ख-घ-थ०' (१२१८७) ध० → ह० । 'क-गट-ड०' (२।७७) द्लुक् । 'अनादौ०' (२८९) धस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वधस्य दः । 'आत्' (२।४।१८) आप्प्र० → आ । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० सद्धा ।
[उग्गयं] उदुपसर्गपूर्वकः अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । उद्गच्छति स्म । गत्यर्थात् 'गत्यर्था-ऽकर्मक०' (५।१।११) कर्तरि क्तप्र० → त । 'यमि-रमि-नमि-गमि०' (४।२।५५) म्लुक् । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ शेषा०' (२।८९) गस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो०' (१।१८०) अस्य यः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः उग्गयं ।
[उन्नयं] उदुपसर्गपूर्वकः 'णमं प्रह्वत्वे' (३८८) णम् । 'पाठे धात्वा०' (२।३।९७) नम् । उन्नमति स्म । अकर्मकात् 'गत्यर्था०' (५।१।११) कर्तरि क्तप्र० → त । 'यमि-रमि-नमि-गमि०' (४।२।५५) म्लुक् । 'क-ग-ट-ड०' (२७७)
लुक् । 'अनादौ०' (२१८९) नस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो०' (१।१८०) अस्य यः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः उन्नयं ॥१२॥
निर्दुरोर्वा ॥८१॥१३॥ निर्-दुर् इत्येतयोरन्त्यव्यञ्जनस्य वा लुग् भवति ॥ निस्सहं नीसहं । दुस्सहो दूसहो । दुक्खिओ दुहिओ ॥ [निर्दुरोर्वा ] निर् च दुर् च = निर्दुरौ, तयोः = निर्दुरोः । षष्ठी ओस् । वा प्रथमा सि ।
[निस्सहं नीसहं] निर्-सह (२) । 'निर्गतं सहति । 'अच्' (५।२४९) अच्प्र० → अ । अनेन वा लुक् । 'लुंकि निरः' (११९३) नि० → नी० । पक्षे- 'श-ष-से श-ष-सं वा' (१।३।६) र० → स० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनु०' (११२३) अनुस्वारः निस्सहं नीसहं ।
[दुस्सहो दूसहो] दुर्-सह (२)। दुष्टं सहति । 'अच्' (५।१।४९) अच्प्र० → अ । अनेन वा लुक् । 'लुंकि दुरो वा' (१।११५) दु० → दू० । 'श-ष-से०' (१।३।६) र० → स० । प्रथमा सि । 'अतः सेोः ' (३।२) सि० → डो० → ओ० दुस्सहो दूसहो ।
[दुक्खिओ दुहिओ] दुःख । दुष्टानि खानि-इन्द्रियाणि सञ्जातानि यस्य सः । 'तदस्य सञ्जातं तारकादिभ्य इतः' (७।१।१३८) इतप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दुःखित इति जाते प्रथमे "श-ष-से श-ष-सं वा' (१।३।६) १. K. नितरां सहते । २. K. दुष्टं सहते । ३. D. 'सर्वत्र ल०' (२१७९) लुक् ।
-