________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[तिअसीसो] त्रिदश-ईश । 'क-ग-च-ज०' (१।१७७) दलुक् । 'सर्वत्र ल- व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । अनेन अलुक् । 'लोकात्' (१।१।३) तिअसीस । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० तिअसीसो ।
[नीसासूसासा] निःश्वास-उच्छ्वास । 'निर्दुरोर्वा' (१।१३) इति निषेधविकल्पपक्षे 'अन्त्यव्यञ्जनस्य' (१।११) लुक्। 'लुंकि निरः' (१२९३) दीर्घः - नि० → नी० । 'सर्वत्र ल-व०' (२७९) व्लुक् । 'श-षोः सः' (१।२६०) शा० → सा० । 'अनुत्साहो०' (१२११४) उ० → ऊ० । अनेन अलुक् । 'लोकात्' (१।१।३) नीसासूसास । प्रथमा औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) औ० → जस्० । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - स० → सा० नीसासूसासा ॥१०॥
अन्त्यव्यञ्जनस्य ॥ ८।१।११ ॥ शब्दानां यदन्त्यव्यञ्जनं तस्य लुग् भवति ॥ जाव । ताव । जसो । तमो । जम्मो ॥ समासे तु वाक्यविभक्त्यपेक्षायामन्त्यत्वमनन्यत्वं च तेनोभयमपि भवति ॥ सद्भिक्षुः → सभिक्खू । सज्जनः → सज्जणो । एतद्गुणाः → एअगुणा । तद्गुणाः → तग्गुणा ।। [अन्त्यव्यञ्जनस्य] अन्त्यव्यञ्जन षष्ठी ङस् ।
[जाव] यावत् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अनेन लुक् । 'आदेर्यो जः' (१।२४५) या० → जा० जाव ।
[ताव] तावत् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अनेन त्लुक् ताव ।
[जसो] यशस् । 'आदेर्यो जः' (१२२४५) य० → ज० । 'श-षोः सः' (१२२६०) श० → स० । अनेन स्लुक् । प्रथमा सि । 'स्नमदाम-शिरो-नभः' (१॥३२) पुंस्त्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० जसो ।
[तमो] तमस । अनेन सलक । प्रथमा सि । 'स्नमदाम०' (१॥३२) पुंस्त्वम् । 'अतः से?:' (३।२) सि० २ डो० → ओ० तमो।
[जम्मो] जन्मन् । अनेन नलुक् । 'न्मो मः' (२०६१) न्मस्य मः । 'अनादौ०' (२१८९) मस्य द्वित्वम् । प्रथमा सि । 'स्नमदाम०' (१।३२) पुंस्त्वम् । 'अत: से?:' (३।२) सि० → डो० → ओ० जम्मो ।
[सभिक्खू] सद्-भिक्षु । संश्चासौ भिक्षुश्च । अत्र अन्यत्वं ज्ञायते, ततोऽनेन लुक् । 'क्षः खः क्वचि०' (२१३) क्षस्य खः । 'अनादौ०' (२।८९) द्वित्वं-ख्खु० । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वस्य खस्य क० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - खु० → खू० । 'अन्त्य०' (१।११) स्लुक् सभिक्खू ।
[सज्जणो] सत्-जन । संश्चासौ जनश्च = सज्जनः । अनन्त्यत्वे त्लुक् । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'नो णः' (११२२८) न० →ण । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० सज्जणो ।
[एअगुणा] एतद्-गुण । एतेषां गुणाः = एअगुणा । अन्त्यत्वेऽनेन द्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) दीर्घः -ण० → णा० एअगुणा ।
[तग्गुणा] तद्-गुण । ते च ते गुणाश्च = तग्गुणा । 'क-ग-ट-ड०' (२१७७) द्लुक् । प्रथमा जस् । 'जस्शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) दीर्घः - ण० → णा० । 'अनादौ०' (२१८९) द्वित्वं-गु० → ग्गु० तग्गुणा ॥११॥