________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[रयणीअरो रयणिअरो] रजनी - कर(२) । रजनीं करोति । रजनी-चर(२) । रजन्यां चरति । 'क-ग-च-ज०' (१।१७७) ज-क-चानां लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । 'नो णः' (१।२२८) नी० → णी० । प्रथमा सि। 'अत: से?:' (३२) सि० → डो० → ओ० रयणीअरो । क्वचित् संयोगं विनापि दीर्घस्य हस्वः - रयणिअरो ।
[मणुअत्तं ] मनुज । मनुजस्य भावः = मनुजत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । 'नो णः' (११२२८) नु० → णु० । 'क-ग-च-ज०' (१११७७) जुलुक् । 'सर्वत्र ल-व०' (२२७९) वलुक् । 'अनादौ शेषा०' (२।८९) द्वित्वं - त. → त्त० मणुअत्तं । - [कुंभयारो कुंभारो] कुम्भकार (२) । 'क-ग-च-ज०' (१।१७७) क्लुक् । बहुलाधिकारात् क्वचिद्वा सन्धिर्न स्यात् । यत्र न सन्धिस्तत्र 'अवर्णो यश्रुतिः' (१११८०) अस्य यः । अन्यत्र 'समानानां०' (१।२।१) दीर्घः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । बाहुलकात् मोऽनुस्वारः कुंभयारो कुंभारो।
[सुउरिसो सूरिसो] सु-पुरुष (२) । 'क-ग-च-ज०' (११७७) प्लुक् । 'पुरुषे रोः' (१।१११) रु० → रि० । द्वितीये 'समानानां०' (१।२।१) दीर्घः । 'श-षोः सः' (१२२६०) ष० → स० । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० सुउरिसो सूरिसो।
[सालाहणो] सातं - दत्तं वाहनं येन स । अथवा सातनामा सिंहरूपो यक्षः, स वाहनमस्य सः = सातवाहनः । 'अतसी-सातवाहने लः' (१।२११) तस्य लः । 'क-ग-च-ज०' (१।१७७) व्लुक् । क्वचित् सन्धिरेव । 'समानानां०' (१।२।१) दीर्घः । 'नो णः' (११२२८) नस्य णः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० सालाहणो।
[चक्काओ] चक्र 'वचं भाषणे' (१०९६) वच् । चक्रशब्देन उच्यते । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ। 'क्तेऽनिट०' (४।१।१११) च० → क० । 'ञ्णिति' (४।३।५०) उपान्त्यस्वरवृद्धिः । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२२८९) कस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) व-कयोर्लुक् । 'समानानां०' (२२२१) दीर्घः । 'अत: से?:' (३२) सि० → डो० → ओ० चक्काओ ॥८॥
त्यादेः ॥ ८॥१९॥
तिवादीनां स्वरस्य स्वरे परे सन्धिर्न भवति ॥ भवति इह → होइ इह ॥ [त्यादेः] त्यादि षष्ठी ङस् ।
[होइ इह] 'भू सत्तायाम्' (१) भू । वर्त० तिव् । 'भुवेर्हो-हुव-हवाः' (४६०) भू० → हो० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच्० → इ० । इदम् । सप्तमी ङि । 'इदम इमः' (३।७२) इदम्० → इम० । 'डेन हः' (३७५) मकारेण सह उर्हः इह । अनेन सन्धिर्न भवति होइ इह ॥९॥
लुक् ॥८॥११०॥
स्वरस्य स्वरे परे बहुलं लुग् भवति ॥ त्रिदशेशः → तिअसीसो । निःश्वासोच्छ्वासौ → नीसासूसासा ।।
[लुक्] लुक् प्रथमा सि ।