________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[निरारम्भमिन्ति] निर्गत आरम्भो यस्मात्, तम् = निरारम्भम् । 'इंण्क् गतौ' (१०७५) इ । वर्त० अन्ति । 'बहुष्वाद्यस्य न्ति०' (३।१४२) अन्ति० → न्ति० इन्ति ।।
[हिअयं ] हृदय । 'इत्कृपादौ' (१।१२८) ह० → हि० । 'क-ग-च-ज०' (१।१७७) द्लुक् हिअयं ।
[कइंदाणं ] कवि-इन्द्र । कवीनां मध्ये इन्द्र इव । षष्ठी आम् । 'सर्वत्र ल-व०' (२७९) व्लुक् । 'हुस्वः संयोगे' (१।८४) ई० → इ० । 'द्रे रो नवा' (२।८०) लुक् । 'टा-आमोर्णः' (३६) आम्० → ण० । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- द० → दा० । 'क्त्वा-स्यादे०' (१।२७) अनुस्वारः कइंदाणं ॥७॥
. स्वरस्योवृत्ते ॥ ८।१८ ॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योऽवशिष्यते स उद्वृत्त इहोच्यते ॥ स्वरस्य उवृत्ते स्वरे परे सन्धिर्न भवति ॥ 'विससिज्जन्त-महा-पसु-दसण-संभम-परोप्परारूढा । गयणे(णि) च्चिअ गन्ध-उडि कुणन्ति तुह कउल-णारीओ ॥ निसाअ(य)रो निसिअरो । रयणीअरो रयणिअरो । मणुअत्तं ॥ बहुलाधिकारात् क्वचिद्विकल्प: - कुंभया(आ)रो कुंभारो । सुउरिसो सूरिओ ॥ क्वचित् सन्धिरेव - सालाहणो । चक्काओ । अत एव प्रतिषेधात् समासेऽपि स्वरस्य सन्धौ भिन्नपदत्वम् ॥ [विससिज्जन्त-महा-पसु.....]
अस्यार्थः - कौलनार्यो गगने एव गन्धपु(कु)टीं कुर्वन्ति । कस्य ? तव । 'विचित्रचित्रवाची गन्धपु(कु)टी शब्दः । किंविशिष्टाः कौलनार्यः ? विशि(श)स्यमाना-हन्यमाना ये महापशवस्तेषां यद् दर्शनं तस्य यः सम्भ्रमस्तेन परस्परमारूढाः । कुले भवाः = कौला इत्यर्थः ।
[गयणे(णि) च्चिअ] गगन । सप्तमी ङि । 'डे-म्मि डे' (३।११) ङि० , डे० ए० । 'णइ-चेअ०' (२।१८४) एव० → चिअ० । 'सेवादी वा' (२।९९) द्वित्वं - चिअ० → च्चिअ० । 'हुस्वः संयोगे (१९८४) ने० → नि० ।
[गन्धउडि ] गन्ध-पु(कु)टी । द्वितीया अम् । 'क-ग-च-ज-त-द०' (१११७७) प(क)लुक् । 'टो डः' (१।१९५) टी० → डी० । 'इस्वोऽमि' (३।३६) डी० → डि० । 'शेषेऽदन्तवत्' (३।१२४) इति न्यायात् 'अमोऽस्य' (३५) अलुक्। 'मोऽनुस्वारः' (१।२३) अनुस्वारः गन्धउड ।
[कुणन्ति ] 'डुकंग करणे' (८८८) कृ । वर्तः अन्ति । 'कृगेः कुणः' (४।६५) कृ० → कुण० । 'बहुष्वाद्यस्य०' (३।१४२) अन्ति० → न्ति० । 'व्यञ्जना०' (४।२३९) अत् कुणन्ति ।
[निसायरो निसिअरो] निशा - कर (२) । निशां करोति = निशाकरः । निशा - चर(२) । निशायां चरति = निशाचरः । 'क-ग-च-ज०' (१।१७७) क-चयोर्लुक् । 'अवर्णो यश्रुतिः । (१।१८०) अस्य यः । 'इ: सदादौ वा' (१७२) इति वा आकारस्य इकारः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० निसायरो निसिअरो । [ग० व० - ३१९] । १. विशस्यमानमहापशुदर्शनसम्भ्रमपरस्परारूढाः । गगन एव गन्धकुटीं कुर्वन्ति तव कौलनार्यः ।। २. D. सङ्कीर्णचित्रविशेषवाची । F. चित्रविशेषवाची । C. विचित्रवाची ।