SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ [आबंधंतीए] आबध्नन्त्याः । आङ् 'बन्धंश् बन्धने' (१५५२) बन्ध् । आबध्नातीति । शतृप्र० । 'शत्रानशः' (३।१८१) शतृ० → न्त० । 'व्यञ्जना०' (४।२३९) अत् । 'ङ-ब-ण-नो०' (१।२५) अनुस्वारः । 'अजातेः पुंसः' (३।३२) ङी । 'लुक् (१।१०) अलुक् । षष्ठी ङस् । 'टा-ङस्-डेर०' (३।२९) ङस्० → एत् ।। [कंचुअं] कञ्चक । द्वि० अम् । 'अमोऽस्य' (३५) अलुक् । 'वा स्वरे०' (१।२४) म्० → अनुस्वारः । 'ङ-बण०' (११२५) ञ् → अनुस्वारः । 'क-ग-च-ज०' (१११७७) क्लु क् । [अंगे] अङ्ग। 'ङ-ब-ण०' (१२५) → अनुस्वारः । सप्तमी ङि। 'डे-म्मि डे' (३।११) ङि० → डे० →ए। [उवमासु अपज्जत्तेह.....] अस्यार्थः - ऊरुयुगं उपमासु अपर्याप्तेभकलभदन्तापहासं वर्तते इति शेषः । इदानीं तदेव ऊरुयुगं मर्दितबिसदण्डविरसमालक्ष्यामः(क्षयामहे) इत्यर्थः । [तं चेअ] तद् । द्वि० अम् । 'अन्त्यव्यः' (१।११) द्लुक् । 'अमोऽस्य' (३५) अलुक् । सिद्धापेक्षया तु 'वा स्वरे मश्च' (१।२४) अनुस्वारः । बहुलाधिकाराद् दकारस्यापि । तं एव । 'णइ-चेअ-चिअ०' (२।१८४) एव० → चेअ० । प्रथमा सि । 'अव्ययस्य' (३।२।८) सिलुप् चेअ । [मलिअ] 'मृदश् खे(क्षो)दे' (१५५०) मृद् । मृद्यते स्म । क्तप्र० → त । 'मृदो मल-मढ०' (४/१२६) मृद० → मल० । 'व्यञ्जना०' (४।२३९) अत् । 'ते' (३।१५६) ल० → लि० । 'क-ग-च-ज०' (१।१७७) त्लुक् मलिअ । [विरसमालक्खिमो ] विरस । द्वि० अम् । 'अमोऽस्य' (३५) अलुक् । आङ् 'लक्षीण् दर्शना-ऽङ्कनयोः' (१७१९) लक्ष् । 'चुरादि०' (३।४।१७) णिच्प्र० । वर्त० मस् । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो० । 'णेरदेदावावे' (३६१४९) अत् । 'क्षः खः क्वचित्तु०' (२।३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'इच्च मो-मु-मे वा' (३।१५५) क्ख० →क्खि० विरसमालक्खिमो। [एहि ] इदानीम् । 'एण्हि एत्ताहे इदानीमः' (२।१३४) इदानीम् → एण्हि० । [अहो] अहो । प्रथमा सि । 'अव्ययस्य' (३३२१७) सिलुप् अहो । [अच्छरिअं] आश्चर्य । 'हस्वः संयोगे' (१९८४) आ० → अ० । 'हुस्वात् थ्य-श्च०' (२।२१) श्च० → छ० । 'अनादौ०' (२१८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'अतो रिआ-ऽर-रिज्ज-रीअं' (२०६७) र्य० → रिअ० । स्यादिः । अच्छरिअं । अत्रैकारौकारयोः स्वरे परे न सन्धिः । [अत्थालोअण-तरला..........] अस्यार्थः - इतरकवीनां बुद्धयोऽर्थाऽऽलोकनतरला भ्रमन्ति, कवीन्द्राणां 'हृदयमर्थे एव निरारम्भं आयातीत्यर्थः । [कईणं] कवि । षष्ठी आम् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- वि० → वी० । 'क-ग-च-ज०' (११७७) व्लुक् । 'टा-आमोर्णः' (३।६) आम्० → ण । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (१।२७) अनुस्वारः कईणं । [अत्थ च्चेअ] अर्थ-एव । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'सर्वत्र०' (२२७९) लुक् । 'अनादौ०' (२८९) थस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२।९०) पूर्वथस्य तः । 'णइ-चेअचिअ०' (२।१८४) एव० → चेअ० । 'सेवादौ वा' (२।९९) द्वित्वम् । 'इस्वः संयोगे' (१९८४) हुस्वः अत्थ च्चेअ । १. K. हृदयमध्ये । 0 हृदयमाः ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy