________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
→ आ । प्रतिभिन्न । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'प्रत्यादौ ड:' (१२०६) ति० → डि० । 'अतः से?:' (३।२) सि० → डो० → ओ० ।
[गूढोअर - तामरसाणुसारिणी ] गूढोदर-तामरसानुसारिणीत्यर्थः । ‘क-ग-च-ज०' (१।१७७) लुक् । 'नो ण:' (११२२८) नु० → णु० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् । अत्र इवर्णोवर्णयोरभावात् सन्धिः ।
[पुहवीसो] पृथिवी - ईश । पृथिव्या ईशः = पृथिवीशः । 'उदृत्वादौ' (१।१३१) पृ० → पु० । 'पथि-पृथिवीप्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत्' (१८८) थि० → थ० । 'ख-घ-थ-ध०' (१११८७) थ० → ह० । 'श-षोः सः' (१।२६०) श० → स० । अत्र 'पदयोः सन्धिर्वा' (१५) सन्धिः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पुहवीसो ॥६॥
एदोतोः स्वरे ॥ ८॥१७॥ एकार-ओकारयोः स्वरे परे सन्धिर्न भवति । वहुआए नहुल्लिहणे आबंधंतीए कंचुअं अंगे । मयरद्धय-सर-धोरणि-धारा-छेअ व्व दीसंति ॥१॥ उवमासु अपज्जत्तेह-कलह - दंतावहासमूरु-जुअं। तं चेअ मलिअ-बिस-दंड-विरसमालक्खिमो एण्हि ॥२॥ अहो अच्छरिअं॥ एदोतोरिति किम् ? 'अत्थालोअण-तरला इयर-कईणं भमंति बुद्धीओ ।
अत्थ 'च्चेअ निरारंभ मिति हिअयं कइंदाणं ॥३॥ [एदोतोः स्वरे ] एच्च ओच्च = एदोतो, तयोः = एदोतोः । षष्ठी ओस् । स्वर सप्तमी ङि । [वहुआए नहुलिहणे...........]
अस्यार्थः - मकरध्वजशरधोरणिधाराच्छेदा इव दृश्यन्ते । क्व ? अङ्गे । कस्याः ? वधुकायाः । किंविशिष्टेऽङ्गे ? नखैरुल्लेखनं यस्य अङ्गस्य तत्तस्मिन् । किंकुर्वन्त्या ? कञ्चुकं आबध्नन्त्या इत्यर्थः । _ [वहुआए] वधुकायाः । हुस्वा वधूः । 'हुस्वे' (७।३।४६) कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'झ्यादीदूतः के' (२।४।१०४) हूस्वः - हू० → हु० । षष्ठी ङस् । 'टा-ङस्-डेर०' (३।२९) ङस्० → एत् ।
[नहुल्लिहणे] नखोल्लेखने । उत् 'लिखत् अक्षरविन्यासे' (१३३६) लिख् । उल्लिख्यते । अनटप्र० → अन । नखैरुल्लेखनं यस्य, तस्मिन् । 'स्वराणां स्वराः' (४।२३८) एकारस्य इ० - ले० → लि० । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् । अथवा लिख् केचित् कुटादौ पठन्ति, ततश्च 'अनट्' (५।३।१२४) अनटप्र० → अन । 'कुटादेङिद्वदञ्णित्' (४।३।१७) इति ङित्वान्न गुणः । १. रक्खतु वो रोमलया माया - महिलत्तणे महुमहस्स । गूढोअरतामरसाणुसारिणी भमरमाल व्व ॥
[ग० व० - १८ । गा० र० - ९ विष्णुस्तुतिः] रक्षतु वो रोमलता मायामहिलात्वे मधुमथनस्य । गूढोदरतामरसानुसारिणी भ्रमरमालेव ॥ [ग० व० - ८६] । २. अर्थालोकनतरलेतरकवीनां भ्राम्यन्ति बुद्धयः । अर्था एव निरारम्भं यन्ति हृदयं कवीन्द्राणाम् ।। ३. K. च्चिअ । ४. L. M. मेंति ।