________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२३१
[सलाहा ] श्लाघा । श्-ला इति विश्लेषं कृत्वा लात् पूर्वं अ० । 'लोकात्' (१।१।३) शलाघा । 'श-षोः सः' (१।२६०) शस्य सः । 'ख-घ-थ०' (१।१८७) घस्य हः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सलाहा ।
[रयणं] रत्न । त्-न इति विश्लेषं कृत्वा नपूर्वं अ० । 'लोकात्' (१।१२३) रतन । 'क-ग-च-ज०' (१२१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः रयणं ।
आर्षे सूक्ष्मशब्देऽपि [सुहमं] सूक्ष्म । 'हुस्वः संयोगे' (१९८४) सू० → सु० । आर्षत्वात् क्ष्मस्य म्हः(म) । हम इति विश्लेषं कृत्वा मपूर्वं अ० । 'लोकात्' (१।१३) सुहम । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः सुहमं ॥१०१॥
स्नेहा-ऽग्न्योर्वा ॥ ८।२।१०२ ॥ अनयोः संयुक्तस्य अन्त्यव्यञ्जनात् 'पूर्वोऽद्वा भवति ॥ सणेहो नेहो । अगणी अग्गी || [स्नेहाऽग्न्योर्वा ] स्नेहश्च अग्निश्च = स्नेहाऽग्नी, तयोः = स्नेहाऽग्न्योः । षष्ठी ओस् । वा प्रथमा सि ।
[सणेहो नेहो ] स्नेह । स्-ने इति विश्लेषे अनेन वा नेपूर्वं अ० । 'लोकात्' (१।१३) सनेह । 'नो णः' (१२२२८) नस्य णः । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० सणेहो । पक्षे-स्नेह । प्रथमा सि । 'क-ग-टड०' (२७७) स्लुक् । 'अत: से?:' (३।२) सि० → डो० → ओ० नेहो ।
[अगणी अग्गी] अग्नि । ग्-नि इति विश्लेषे अनेन वा निपूर्वं अ० । 'लोकात्' (१।१।३) अगनि । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (११११) स्लुक् अगणी । पक्षे-अग्नि । 'अधो म-न-याम्' (२७८) ग्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अग्गी ॥१०२॥
प्लक्षे लात् ॥ ८।२।१०३ ॥ प्लक्षशब्दे संयुक्तस्य अन्त्यव्यञ्जनाल्लात्पूर्वोऽद् भवति ॥ पलक्खो । [प्लक्षे लात्] प्लक्ष सप्तमी ङि । ल पञ्चमी ङसि ।
[पलक्खो ] प्लक्ष । प्-ल इति विश्लेषे लात् पूर्वं अ० । 'लोकात्' (१।१।३) पलक्ष । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पलक्खो ॥१०३॥
ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ ८।२।१०४ ॥ एषु संयुक्तस्य अन्त्यव्यञ्जनात् पूर्व इकारो भवति ॥
ह-अरिहइ । 'अरिहो । गरिहा । 'बरिहा ॥ श्री → सिरी ॥ ही → हिरी । हीतः → हिरीओ । अहीक: → अहिरीओ ॥ कृत्स्न: → कसिणो ॥ क्रिया → किरिआ ॥ आर्षे तु हयं नाणं कियाहीणं ॥ दिष्ट्या → दिट्ठिआ ॥ .
[हश्रीहीकृत्स्नक्रियादिष्ट्यास्वित्] हश्च श्रीश्च हीश्च कृत्स्नश्च क्रिया च दिष्ट्या च = हश्रीहीकृत्स्नक्रियादिष्ट्याः, तासु = हश्रीहीकृत्स्नक्रियादिष्ट्यासु । सप्तमी सुप् । इत् प्रथमा सि ।
१. H. J. K. L. M. अकारो वा । २. H. I. J. L. अरिहा । ३. सर्वमुद्रितेषु बरिहो।।