________________
२३२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[अरिहइ ] 'अर्ह पूजायाम्' (५६४) अर्ह । वर्त्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) अर्हति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । र-ह इति विश्लेषं कृत्वा अनेन हपूर्वं इ० । 'लोकात्' (१।१।३) अरिहइ ।
[अरिहो ] अर्हन् । 'अन्त्यव्यः' (१।११) ग्लुक् । र्-ह इति विश्लेषे अनेन हपूर्वं इ० । 'लोकात्' (१।१।३) अरिह। प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अरिहो ।
[गरिहा ] गरे । र्-ह इति विश्लेषे अनेन हपूर्वं इ० । 'लोकात्' (१।१।३) गरिहा । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् गरिहा ।
[बरिहा ] बर्हन् । 'अन्त्यव्य०' (१।११) न्लुक् । र-ह इति विश्लेषे अनेन हपूर्वं इ० । 'लोकात्' (१।१।३) बरिह। प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) ह० → हा० बरिहा ।
[सिरी] श्री। श्-री इति विश्लेषे अनेन रीपूर्वं इ० । 'लोकात्' (१।१।३) शिरी । 'श-षोः सः' (१।२६०) शि० → सि० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सिरी ।
[हिरी] ही । हरी इति विश्लेषे रीपूर्वं इ० । 'लोकात्' (१२१॥३) हिरी । प्रथमा सि । 'अन्त्यव्य०' (१२११) स्लुक् हिरी ।
[हिरीओ] हीत । ह-री इति विश्लेषे अनेन रीपूर्वं इ० । 'लोकात्' (१३) हिरीत । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० हिरीओ।
[अहिरीओ] अहीक । ह-री इति विश्लेषे अनेन रीपूर्वं इ० । 'लोकात्' (१।१।३) अहिरीक । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अहिरीओ।
[कसिणो] कृत्स्न । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'क-ग-ट-ड०' (२७७) त्लुक् । स्-न इति विश्लेषे अनेन नपूर्वं इ० । 'लोकात्' (१॥१॥३) कसिन । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० कसिणो ।
[किरिआ] क्रिया । क्-रि इति विश्लेषे अनेन रिपूर्वं इ० । 'लोकात्' (१।१।३) किरिया । 'क-ग-च-ज-त०' (१।१७७) यलुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् किरिआ । __ [हयं नाणं कियाहीणं] हत । 'क-ग-च-ज-त-द०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः हयं । ___ ज्ञान । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'व्यत्ययश्च' (४।४४७) इति न्यायात् 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः नाणं ।
. आर्षे-क्रिया । 'सर्वत्र०' (२१७९) रलुक् । किया । हीन । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः हीणं ।
[दिहिआ] दिष्ट्या । ष्ट-या इति विश्लेषे अनेन यापूर्वं इ० । 'लोकात्' (१।१।३) दिष्टिया । 'ष्टस्याऽनु०' (३।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'क-ग-च-ज०' (१।१७७) य्लुक् दिहिआ ॥१०४॥
र्श-र्ष-तप्त-वजे वा ॥ ८।२।१०५ ॥ श-र्षयोस्तप्त-वज्रयोश्च संयुक्तस्य अन्त्यव्यञ्जनात् पूर्व इकारो वा भवति ।।