________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२२३
[न दीर्घानुस्वारात्] न प्रथमा सि । दीर्घश्च अनुस्वारश्च = दीर्घानुस्वारम्, तस्मात् = दीर्घानुस्वारात् । पञ्चमी ङसि ।
[छूढो ] क्षिप्त । 'वृक्ष-क्षिप्तयो रुक्ख-छूढौ' (२।१२७) क्षिप्तस्य छूढः । 'अनादौ०' (२।८९) इति द्वित्वप्राप्तो अनेन निषेधः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० छूढो ।
[नीसासो] निर्-श्वास । 'निर्दुरोर्वा' (१।२३) लुक् । 'लुंकि निरः' (१।९३) नि० → नी० । 'सर्वत्र०' (२।७९) व्लुक् । 'श-षोः सः' (१।२६०) शस्य सः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० नीसासो ।
[फासो] स्पर्श । 'ष्प-स्पयोः फः' (२।५३) स्पस्य फः । 'सर्वत्र०' (२२७९) लुक् । 'लुप्तय-र-व-श-ष-सां०' (१।४३) फ० → फा० । 'श-षोः सः' (१।२६०) शस्य सः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० फासो ।
अथवा 'स्पृशत् संस्पर्श' (१४१२) स्पृश् । स्पर्शनं = स्पर्शः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ० । 'स्पृशः फास-फंस-फरिस-छिव०' (४/१८२) स्पृशस्य फास आदेशः । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० फासो ।
[पासं] पार्श्व । 'सर्वत्र०' (२१७९) र-वयोर्लुक् । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पासं ।
[सीसं] शीर्ष । 'श-षोः सः' (१।२६०) श-षयोः सः । 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सीसं ।
[ईसरो] ईश्वर । 'सर्वत्र०' (२१७९) व्लु क् । 'श-षोः सः' (१२२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० ईसरो ।
[वेसो] द्वेष्य । 'क-ग-ट-ड०' (२।७७) द्लुक् । 'अधो म-न-याम्' (२।७८) य्लोपः । 'श-षोः सः' (१२२६०) ष० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० वेसो ।
[लासं] लास्य । 'अधो म-न-याम्' (२।७८) य्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म् । 'मोऽनु०' (११२३) अनुस्वारः लासं ।
[आसं] आस्य । 'अधो म-न-याम्' (२७८) य्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः आसं ।
[पेसो] प्रेष्य । 'सर्वत्र०' (२७९) लुक् । 'अधो म-न-याम्' (२७८) यलुक् । 'श-षोः सः' (१२२६०) ष० → स० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० पेसो ।
[ओमालं] अवमाल्य । 'अवापोते' (१।१७२) अवस्य ओ० । 'अधो म-न-याम्' (२।७८) यलुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः ओमालं ।
[आणा] आज्ञा । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् आणा ।
[आणत्ती] आज्ञप्ति । 'म्न-ज्ञोर्णः' (२२४२) ज्ञस्य णः । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (११११) स्लुक् आणत्ती ।
[आणवणं] आज्ञपन । 'म्न-ज्ञोर्णः' (२२४२) ज्ञस्य णः । 'नो णः' (१२२२८) नस्य णः । 'पो वः' (१२२३१) पस्य वः । प्रथमा सि । 'क्लीबे०' (३।२३) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः आणवणं ।