________________
२२२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[पुष्पं] पुष्प । 'ष्प-स्पयोः फः' (२।५३) ष्पस्य फः । 'अनादौ०' (२।८९) फस्य द्वित्वम् । अनेन पूर्वफस्य पः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पुष्पं ।
भलो] विह्वल । 'वा विह्वले वौ वश्च' (२०५८) वि० → भि० - ह्वस्य च भः । 'अनादौ०' (२१८९) भस्य द्वित्वम् । अनेन भस्य बः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० भिब्भलो।
[ओक्खलं] उदू(लू)खल । 'नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार-कुतूहलोदूखलोलुखले' (१।१७१) दू(लू)वर्णेन सह उ० → ओ० । 'तैलादौ' (२२९८) ('सेवादौ वा' (२९९)) खस्य द्वित्वम् । अनेन पूर्वखस्य कः । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म् । 'मोऽनु०' (११२३) अनुस्वारः ओक्खलं ।
[नक्खा नहा ] नख । 'सेवादौ वा' (२।९९) खस्य द्वित्वम् । अनेन पूर्वखस्य कः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि-त्तो-दो-द्वामि दीर्घः' (३।१२) ख० → खा० नक्खा ।
पक्षे-नख । प्रथमा जस् । 'ख-घ-थ-ध-भाम्' (१।१८७) खस्य हः । 'जस्-शसोलुक् (३।४) जस्लुक् । 'जस्शस्-ङसि०' (३।१२) ह० → हा० नहा ।
[कइद्धओ कइधओ] कपि-ध्वज । कपिर्ध्वजे यस्य सः = कपिध्वजः । 'क-ग-च-ज-त-द-प०' (१२१७७) प्लुक् । 'सर्वत्र०' (२७९) व्लुक् । 'समासे वा' (२।९७) धस्य द्वित्वम् । अनेन पूर्वधस्य दः । 'क-ग-च-ज-त-द०' (१।१७७) ज्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० कइद्धओ।
पक्षे-कपि-ध्वज । 'क-ग-च-ज०' (१।१७७) प्लुक् । 'सर्वत्र०' (२१७९) व्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० कइधओ।
[खाओ] 'ख्यात । 'अधो म-न-याम्' (२।७८) यलुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२१२११४) अलुक् खाओ ॥९॥
दीर्घ वा ॥ ८।२।९१ ॥ दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति || दिग्घो दीहो । [दीर्घ वा] दीर्घ सप्तमी ङि । वा प्रथमा सि ।।
[दिग्धो दीहो ] दीर्घ । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२।८९) घस्य द्वित्वम् । अनेन पूर्वघस्य गः । 'हुस्वः संयोगे' (१९८४) दी० → दि० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दिग्यो । पक्षे-दीर्घ । 'सर्वत्र०' (२१७९) लुक । 'ख-घ-थ०' (१।१८७) घस्य हः । प्रथमा सि । 'अतः सेोः ' (३।२) सि० → डो० → ओ० दीहो ॥११॥
न दीर्घानुस्वारात् ॥ ८।२।९२ ॥ दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषाऽऽदेशयोर्द्वित्वं न भवति ॥
छूढो । नीसासो । फासो ॥ अलाक्षणिक - पार्श्वम् → पासं । शीर्षम् → सीसं । ईश्वरः → ईसरो । द्वेष्यः → वेसो। लास्यम् → लासं । आस्यम् → आसं । प्रेष्यः → पेसो । अवमाल्यम् → ओमालं । आज्ञा → आणा । आज्ञप्तिः → आणत्ती । आज्ञपनं → आणवणं ॥ अनुस्वारात् - त्र्यस्रम् → तंसं ॥ अलाक्षणिक - संझा । विझो । कंसालो ॥ १. G पाठां० खात ता० टि० ।