________________
२२४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[तंसं ] यत्र । 'सर्वत्र०' (२७९) लुक् । 'अधो म-न-याम्' (२।७८) यलुक् । 'वक्रादावन्तः' (१।२६) अनुस्वारः। 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तंसं ।
[संझा] संध्या । 'साध्वस-ध्य-ह्यां झः' (२०२६) ध्यस्य झः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् संझा ।
[विंझो] विध्य । 'साध्वस-ध्य०' (२।२६) ध्यस्य झः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० विंझो।
[कंसालो] 'कांश्यताल । 'हस्वः संयोगे' (१९८४) कां० → कं० । 'अधो म-न-याम्' (२।७८) य्लुक् । 'क-गच-ज०' (१।१७७) त्लुक् । 'श-षोः सः' (१।२६०) शस्य सः । बाहुलकात् सन्धिः । 'समानानां०' (१।२।१) इति दीर्घः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० कंसालो ॥९२।। .
र-होः ॥ ८।२।९३ ॥ रेफ-हकारयोद्वित्वं न भवति ॥ रेफः शेषो नास्ति ।। आदेश-सुन्दरं । 'बम्भचेरं । पेरन्तं ॥ शेषस्य हस्य विहलो ॥ आदेशस्य कहावणो । [रहोः ] रश्च ह च = रहौ, तयोः = रहोः । षष्ठी ओस् ।
[सन्देरं] सौन्दर्य । 'उत् सौन्दर्यादौ' (१।१६०) सौ० → सु० । 'एच्छय्यादौ' (१।५७) द० → दे० । 'ब्रह्मचर्यतूर्य-सौन्दर्य-शौण्डीर्ये र्यो र' (२०६३) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१।२३) अनुस्वारः सुन्देरं ।
[बम्भचेरं] ब्रह्मचर्य । 'सर्वत्र०' (२६७९) लुक् । क्वचित् म्भोऽपि । हमस्य म्भः । 'ब्रह्मचर्ये चः' (१५९) च० → चे० । 'ब्रह्मचर्य-तूर्य०' २।६३) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः बम्भचेरं ।
[पेरन्तं ] पर्यन्त । 'वल्ल्यु त्कर-पर्यन्ता-ऽऽश्चर्ये वा' (११५८) प० → पे० । 'एतः पर्यन्ते' (२।६५) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पेरन्तं ।
[विहलो ] विह्वल । 'सर्वत्र०' (२७९) व्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० विहलो।
[कहावणो] कार्षापण । 'हुस्वः संयोगे' (१८४) का० → क० । 'कार्षापणे' (२१७१) र्षस्य हः । 'पो वः' (१।२३१) पस्य वः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० कहावणो ॥१३॥
धृष्टद्युम्ने णः ॥ ८।२।९४ ॥ धृष्टद्युम्ने शब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धट्ठज्जुणो ॥ [धृष्टद्युम्ने णः] धृष्टद्युम्न सप्तमी ङि । ण् षष्ठी ङस् ।
[धट्ठज्जुणो ] 'धृष्टद्युम्न । 'ऋतोऽत्' (१।१२६) धृ० → ध० । 'ष्टस्याऽनुष्ट्रेष्टा०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'द्य-य्य-यां जः' (२।२४) धु० → जु० । 'अनादौ०' १. G. कांस्यताल । G पाठां० काश्यताल ख० । कांशताल ग. I J. L. पा० म० - कांस्याल । २. सर्वमुद्रितेषु बम्हचेरं ।
(२८२) तस्य तित्वम् । द्वितीय-तुर्षोः (२