________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
अनादौ शेषाऽऽदेशयोद्वित्वम् ॥ ८।२८९ ॥ पदस्य अनादौ वर्तमानस्य शेषस्य आदेशस्य च द्वित्वं भवति ॥ शेष - कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का । अक्को । मुक्खो ॥
आदेश - डक्को । जक्खो । रग्गो । किच्ची ॥ रुप्पी ॥ क्वचिन भवति-कसिणो ॥ अनादाविति किम् ? खलिअं। थेरो। खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति ॥ विचओ । भिण्डिवालो॥
[अनादौ शेषाऽऽदेशयोद्वित्वम् ] अनादि सप्तमी ङि । शेषश्च आदेशश्च = शेषाऽऽदेशौ, तयोः = शेषाऽऽदेशयोः । षष्ठी ओस् । द्वित्व प्रथमा सि ।
[कप्पतरू ] कल्पतरु । प्रथमा सि । 'सर्वत्र०' (२।७९) ल्लुक् । अनेन पस्य द्वित्वम् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् कप्पतरू ।
[भुत्तं] भुक्त । 'क-ग-ट-ड०' (२७७) क्लुक् । अनेन तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः भुत्तं ।।
[दुद्धं] दुग्ध । प्रथमा सि । 'क-ग-ट-ड०' (२७७) ग्लुक् । अनेन धस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वधस्य दः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः दुद्धं ।
[नग्गो] नग्न । प्रथमा सि । 'अधो म-न-याम्' (२।७८) न्लुक् । अनेन गस्य द्वित्वम् । 'अतः सेझैः' (३२) सि० → डो० → ओ० नग्गो ।
[उक्का ] उल्का । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । अनेन कस्य द्वित्वम् । 'अन्त्यव्य०' (१।११) स्लुक् उक्का । __ [अक्को ] अर्क । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । अनेन कस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० अक्को ।
[मुक्खो ] मूर्ख । 'हस्वः संयोगे' (१८४) मू० → मु० । 'सर्वत्र०' (२१७९) लुक् । अनेन खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'अत: से?:' (३२) सि० → डो० → ओ० मुक्खो ।
[डक्को ] दष्ट । प्रथमा सि । 'दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः' (१२२१७) दस्य डः । 'शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा' (२२२) ष्टस्य कः । अनेन कस्य द्वित्वम् । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० डक्को ।
[जक्खो ] यक्ष । प्रथमा सि । 'आर्यो जः' (१२२४५) यस्य जः । 'क्षः खः क्वचित्तु छ-झौ' (२२३) क्षस्य खः । अनेन खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वखस्य कः । 'अतः से?:' (३२) सि० → डो० → ओ० जक्खो ।
[रग्गो] रक्त । प्रथमा सि । 'रक्ते गो वा' (२।१०) क्तस्य गः । अनेन गस्य द्वित्वम् । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० रग्गो ।
[किच्ची ] कत्ति । 'इत कपादौ' (१।१२८) क० कि० । 'कत्ति-चत्वरे चः' (२०१२) त्ति० २ चि० । अनेन चस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् किच्ची ।