SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [दशाहे ] दशार्ह सप्तमी ङि । [दसारो] दशार्ह । 'श-षोः सः' (१२२६०) शस्य सः । अनेन हलुक् । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० दसारो ॥८५॥ आदेः श्मश्रु-श्मशाने ॥ ८॥२८६ ॥ अनयोरादेर्लुग् भवति ॥ मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति ॥ [आदेः श्मश्रुश्मशाने ] आदि षष्ठी ङस् । श्मश्रु च श्मशानं च = श्मश्रुश्मशानम्, तस्मिन् = श्मश्रुश्मशाने । सप्तमी ङि। [मासू मंसू मस्सू] श्मश्रु । अनेन श्लुक् । 'सर्वत्र०' (२७९) लुक् । 'लुप्तय-र-व-श-ष-सां श-ष-सां दीर्घः' (१२४३) म० → मा० । 'श-षोः सः' (१२२६०) शस्य सः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् मासू । द्वितीये-श्मश्रु । अनेन श्लुक् । 'वक्रादावन्तः' (१।२६) अनुस्वारः । 'सर्वत्र०' (२७९) लुक् । 'लुप्तय-र-व-शष-सां०' (१।४३) मं० → मां० । 'मांसादिष्वनुस्वारे' (१९७०) हुस्व: मां० → मं० । 'श-षोः सः' (१।२६०) शस्य सः। प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक् मंसू। तृतीये-श्मश्रु । अनेन श्लुक् । 'सर्वत्र०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शस्य सः । 'अनादौ०' (२।८९) सस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् मस्सू । [मसाणं] श्मशान । अनेन श्लुक् । 'श-षोः सः' (१२२६०) शस्य सः । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः मसाणं ॥८६॥ श्लो हरिश्चन्द्रे ॥ ८॥२८७ ॥ हरिश्चन्द्रशब्दे श्च इत्यस्य लुग भवति ॥ हरिअन्दो ॥ [चो हरिश्चन्द्रे ] श्च् षष्ठी ङस् । हरिश्चन्द्र सप्तमी ङि । [हरिअन्दो] हरिश्चन्द्र । प्रथमा सि । अनेन श्वस्य लुक् । 'द्रे रो नवा' (२६८०) लुक् । 'अत: से?:' (३।२) सि० → डो० → ओ० हरिअन्दो ॥८७॥ रात्रौ वा ॥ ८।२।८८ ॥ रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ राई रत्ती ॥ [रात्रौ वा] रात्रि सप्तमी ङि । वा प्रथमा सि । [राई रत्ती ] रात्रि । प्रथमा सि । अनेन वा त्रस्य लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् राई॥ पक्षे-रात्रि । प्रथमा सि । 'हुस्वः संयोगे' (१९८४) रा० → र० । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक रत्ती ॥८८॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy