SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २१३ [चक्कं] चक्र । प्रथमा सि । अनेन लुक् । 'अनादौ०' (२१८९) कस्य द्वित्वम् । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः चक्कं । [वक्कं] वक्र । प्रथमा सि । अनेन लुक् । 'अनादौ०' (२१८९) कस्य द्वित्वम् । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनु०' (१।२३) अनुस्वारः वक्कं । पक्षे-'अतः से?:' (३।२) सि० → डो० → ओ० वक्को । [गहो] ग्रह । प्रथमा सि । अनेन लुक् । 'अत: से?:' (३२) सि० → डो० → ओ० गहो । [रत्ती] रात्रि । 'हस्वः संयोगे' (१९८४) रा० → र० । अनेन लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् रत्ती। द्व इत्यादि संयुक्तानामक्षराणां सूत्रद्वयप्राप्तौ यादृशं रूपे दृश्यते तदनुसारेण सूत्रं प्राप्यते ॥ क्वचित् ऊर्ध्वाक्षरस्यैव लोपः, नाधोवर्तिनः । यथा [उब्विग्गो] उद्विग्न । 'क-ग-ट-ड०' (२।७७) द्लुक् । 'अनादौ०' (२।८९) वस्य द्वित्वम् । 'अधो म-न-याम्' (२।७८) न्लोप: । 'अनादौ०' (२१८९) गस्य द्वित्वम् । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० उव्विग्गो । [विउणो] द्विगुण । 'क-ग-ट-ड०' (२७७) द्लुक् । 'क-ग-च-ज०' (१।१७७) ग्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० विउणो । [वीओ] द्वितीय । 'क-ग-ट-ड०' (२७७) लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'स्वरस्योद्वत्ते' (१८) इति क्वचित् सन्धिरेव, ततः 'समानानां०' (१।२।१) इति दीर्घः । 'क-ग-च-ज-त-द-प-य-वां०' (११७७) यलुक् । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् वीओ। [कम्मसं ] कल्मष । 'सर्वत्र०' (२१७९) ल्लुक् । 'अनादौ०' (२१८९) मस्य द्वित्वम् । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कम्मसं । [सव्वं] सर्व । 'सर्वत्र०' (२।७९) लुक् । 'अनादौ०' (२७९) वस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सव्वं । [सुब्बं] शुल्ब । 'सर्वत्र०' (२१७९) ल्लुक् । 'अनादौ०' (२७९) बस्य द्वित्वम् । 'श-षोः सः' (१२२६०) शस्य सः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सुब्बं । क्वचिदधोवर्तिन एव लुग भवति । यथा - [कव्वं] काव्य । 'हुस्वः संयोगे' (१९८४) का० → क० । 'अधो म-न-याम्' (२१७८) यलुक् । 'अनादौ०' (२।८९) वस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कव्वं । [कुल्ला ] कुल्या । प्रथमा सि । 'अधो म-न-याम्' (२।७८) य्लुक् । 'अनादौ०' (२८९) लस्य द्वित्वम् । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् कुल्ला । [मल्लं] माल्य । 'हुस्वः संयोगे' (१९८४) मा० → म० । 'अधो म-न-याम्' (२।७८) यलुक् । 'अनादौ०' (२२८९) लस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः मलं । १. A. वक्कं उदाहरणम् ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy