________________
२१२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
क्वचित्त्वधः - काव्यम् → कव्वं । कुल्या → कुल्ला । माल्यम् → मल्लं । द्विपः → दिओ । द्विजाति: → दुआई ।। क्वचित् पर्यायेण - द्वारम् → बारं - दारं । उद्विग्नः → उव्विग्गो उव्विण्णो ॥ अवन्द्र इति किम् ? वन्द्रं ॥ संस्कृतसमोऽयं प्राकृतशब्दः । अत्रोत्तरेण विकल्पोऽपि न भवति, निषेधसामर्थ्यात् ॥
[सर्वत्र लबरामवन्द्रे ] सर्वत्र सप्तमी ङि । लश्च बश्च र् च = लबरः, तेषाम् = लबराम् । षष्ठी आम् । न वन्द्रमवन्द्रम्, तस्मिन् = अवन्द्रे । सप्तमी ङि ।
[उक्का ] उल्का । अनेन ल्लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् उक्का ।
[वक्कलं ] वल्कल । प्रथमा सि । अनेन ल्लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः वक्कलं ।
[सद्दो] शब्द । 'श-षोः सः' (१।२६०) शस्य सः । अनेन ब्लुक् । 'अनादौ०' (२१८९) दस्य द्वित्वम् । प्रथमा सि। 'अत: से?:' (३।२) सि० → डो० → ओ० सहो ।
[अद्दो] अब्द । प्रथमा सि । अनेन ब्लुक् । 'अनादौ०' (२८९) दस्य द्वित्वम् । 'अत: से?:' (३।२) सि० → डो० → ओ० अद्दो।
[लोद्धओ] लुब्धक । 'ओत् संयोगे' (१।११६) लु० → लो० । अनेन ब्लुक् । 'अनादौ०' (२।८९) धस्य द्वित्वम्। 'द्वितीय-तुर्ययो०' (२९०) पूर्वधस्य दः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० लोद्धओ । __ [अक्को ] अर्क । अनेन लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अक्को । ___ [वग्गो] वर्ग । अनेन लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० वग्गो।
[कको] कर्क । अनेन लुक् । 'अनादौ०' (२२८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० कक्को ।
[सण्हं] श्लक्ष्ण । प्रथमा सि । अनेन ल्लुक् । 'श-षोः सः' (१।२६०) शस्य सः । 'सूक्ष्म-श्न-ष्ण-स्न-ह्न-णक्ष्णां ण्हः' (२।७५) क्ष्णस्य ग्रहः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सण्हं।
[विक्कवो] विक्लव । अनेन ल्लुक् । 'अनादौ०' (२२८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० विक्कवो ।
[पिकं पक्कं] पक्व । 'पक्वा-ऽङ्गार-ललाटे वा' (१२४७) प० → पि० । अनेन लुक् । 'अनादौ०' (२१८९) केस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पिक्वं पक्कं ।
[धत्यो] ध्वस्त । अनेन व्लुक् । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तस्य थः । 'अनादौ०' (२१८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० धत्थो।
१. A. कक्को उदाहरणम् ।