SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २११ म-जुग्गं । रस्सी । सरो । सेरं । न-नग्गो । लग्गो । य-सामा । कुडं । वाहो ॥ [अधो मनयाम्] अधस् सप्तमी ङि । 'अव्ययस्य' (३।२७) ङिलुप् । मश्च नश्च य् च = मनयः, तेषाम् = मनयाम् । षष्ठी आम् । [जुग्गं] युग्म । 'आदेर्यो जः' (१।२४५) यस्य जः । अनेन म्लुक् । 'अनादौ०' (२१८९) गस्य द्वित्वम् । प्रथमा सि। 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जुग्गं । [रस्सी] रश्मि । अनेन मलोपः । 'श-षोः सः' (१।२६०) शस्य सः । 'अनादौ०' (२१८९) सस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक रस्सी । [सरो] स्मर । प्रथमा सि । अनेन मलक । 'अतः सेोः' (३२) सि० डो० , ओ० सरो । [सेरं ] स्मेर । प्रथमा सि । अनेन म्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः सेरं। [नग्गो] नग्न । प्रथमा सि । अनेन न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । 'अतः से?:' (३२) सि० → डो० → ओ० नग्गो । [लग्गो] लग्न । प्रथमा सि । अनेन नलुक् । 'अनादौ०' (२१८९) गस्य द्वित्वम् । 'अतः सेोः' (३।२) सि० → डो० → ओ० लग्गो। [मग्गो] मग्न । प्रथमा सि । अनेन न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । 'अतः सेझैः' (३२) सि० → डो० → ओ० मग्गो। [भग्गो] भग्न । प्रथमा सि । अनेन न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । 'अतः से?:' (३२) सि० → डो० → ओ० भग्गो । [सामा] श्यामा । अनेन य्लुक् । 'श-षोः सः' (१।२६०) शा० → सा० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सामा। [कुडं ] कुड्य । अनेन य्लुक् । 'अनादौ०' (२।८९) डस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कुड्डं । [वाहो ] व्याध । अनेन यलुक् । 'ख-घ-थ-ध-भाम्' (१२१८७) धस्य हः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० वाहो ॥७८॥ सर्वत्र ल-ब-रामवन्द्रे ॥ ८॥२७९ ॥ वन्द्रशब्दादन्यत्र लबरां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग भवति । ऊर्ध्वम्-ल-उल्का → उक्का-। वल्कलम् → वक्कलं । ब-शब्दः → सद्दो । अब्दः → अद्दो । लुब्धकः → लोद्धओ। र-अर्कः → अक्को । वर्गः → वग्गो। अधः - श्लक्ष्णम् → सण्हं । विक्लवः → विक्कवो । पक्वम् → पक्कं - पिक्कं । ध्वस्तः → धत्थो । चक्रम् → चक्कं । ग्रहः → गहो । रात्रिः → रत्ती ॥ ___ अत्र द्वे इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः ॥ क्वचिदूर्ध्वम् - उद्विग्नः → उव्विग्गो । द्विगुणः → विउणो । द्वितीय: → बीओ । कल्मषम् → कम्मसं । सर्वम् → सव्वं । शुल्बम् → सुब्बं ॥ १. A. मग्गो उदाहरणम् । २. A. भग्गो उदाहरणम् ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy