________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२०५
[ दुहं दुक्खं] दुःख । अनेन वा :खस्य हः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः दुहं ।
पक्षे-दुःख । 'क-ग-ट-ड०' (२१७७) इति जिह्वामूलीयस्य लुक् । 'अनादौ०' (२१८९) खस्य द्वित्वम् । 'द्वितीयतुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः दुक्खं ।
[परदुक्खे दुक्खिआ विरला] परदुक्ख(:ख) । सप्तमी ङि । 'डे-म्मि डे:' (३११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अकारस्य लुक् । 'क-ग-ट-ड०' (२७७) : लुक् । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः परदुक्खे ।
दुःखित । 'क-ग-ट-ड०' (२७७) जिह्वामूलीयलुक् । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा जस् । 'जस्-शसोर्लुक् (३।४) जस्लोपः । 'जस्शस्०' (३।१२) दीर्घः अ० → आ० दुक्खिआ ।
विरल । प्रथमा जस् । 'जस्-शसोलुंक' (३।४) जस्लुक् । 'जस्-शस्' (३।१२) दीर्घः - ल० + ला० विरला ।
[दाहिणो दक्खिणो] दक्षिण । अनेन वा क्षस्य हः । 'दक्षिणे हे' (१।४५) द० → दा० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दाहिणो ।
पक्षे-दक्षिण । 'क्षः खः क्वचित्तु छ-झौ' (२॥३) क्षस्य खः - छ-झावपि । 'अनादौ०' (२।८९) खस्य-छस्य-झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः - पूर्वछस्य च: - पूर्वझस्य जः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दक्खिणो दच्छिणो दज्झिणो।
[तूहं तित्थं ] तीर्थ । अनेन वा र्थस्य हः । 'तीर्थे हे' (१।१०४) ती० → तू० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तूहं । ___पक्षे-तीर्थ । 'हुस्वः संयोगे' (१९८४) ती० → ति० । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । मोऽनु०' (१२२३) अनुस्वारः तित्थं ॥७२॥
कूष्माण्ड्यां ष्मो लस्तु ण्डो वा ॥ ८।२७३ ॥ कूष्माण्ड्यां ष्मा इत्येतस्य हो भवति, ण्ड इत्यस्य तु वा लो भवति ॥ कोहली । कोहण्डी ॥
[कूष्माण्ड्यां ष्मो लस्तु ण्डो वा] कूष्माण्डी सप्तमी ङि । ष्मा षष्ठी ङस् । ल प्रथमा सि । तु प्रथमा सि । ण्ड् षष्ठी ङस् । वा प्रथमा सि ।
[कोहली कोहण्डी] कूष्माण्डी । अनेन ष्मा० → हः । 'ओत् कूष्माण्डी - तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूचीमूल्ये' (१।१२४) कू० → को० - ततोऽनेनैव वा ण्डस्य लः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् कोहली । लकारविकल्पपक्षे कूष्माण्डी । 'ओत् कूष्माण्डी०' (१।१२४) कू० → को० । अनेन ष्मा० → हः । प्रथमा सि । 'अन्त्यव्य०' (१।११) सलुक कोहण्डी ॥७३॥
पक्ष्म-श्म-ष्म-स्म-मां म्हः ॥ ८।२७४ ॥ पक्ष्मशब्दसम्बन्धिनः संयुक्तस्य श्म-ष्म-स्म-मां च मकाराक्रान्तो हकार आदेशो भवति ॥