________________
२०४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[वणस्सई वणप्फई] वनस्पति । 'नो णः' (१२२८) नस्य णः । अनेन वा स्पस्य सः । 'अनादौ०' (२।८९) सस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् वणस्सई।
पक्षे-वनस्पति । 'नो णः' (१।२२८) नस्य णः । 'ष्प-स्पयोः फः' (२।५३) स्पस्य फः । 'अनादौ०' (२।८९) फस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'क-ग-च-ज०' (१३१७७) तलुक् । प्रथमा सि । 'अक्लीबे सौ' (३१९) दीर्घः । 'अन्त्यव्य०'(१।११) सूलुक् वणप्फई ॥६९||
बाष्पे होऽश्रुणि ॥ ८।२।७० ॥ बाष्पशब्दे संयुक्तस्य हो भवति, अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् ? बप्फो ऊष्मा ।। [बाष्ये होऽश्रुणि] बाष्प सप्तमी ङि । ह प्रथमा सि । अश्रु सप्तमी ङि।
[बाहो नेत्रजलम् ] बाष्प । अनेन ष्पस्य हः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० बाहो नेत्रजलम् ।
[बप्फो ऊष्मा] बाष्प । 'हुस्वः संयोगे' (१९८४) बा० → ब० । 'ष्प-स्पयोः फः' (२।५३) ष्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० बप्फो ऊष्मा ॥७०॥
कार्षापणे ॥ ८२७१ ॥
कार्षापणे संयुक्तस्य हो भवति ॥ .
काहावणो ॥ कथं कहावणो ? 'हुस्वः संयोगे' (१।८४) इति पूर्वमेव हुस्वत्वे पश्चादादेशे । कर्षापणशब्दस्य वा भविष्यति ॥
[कार्षापणे] कार्षापण सप्तमी ङि।
.
[काहावणो] कार्षापण । अनेन र्षस्य हः । 'पो वः' (१०२३१) पस्य वः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० काहावणो ।
[कहावणो] कार्षापण । 'हस्व: संयोगे' (१८४) का० → क० । अनेन र्षस्य हः । 'पो वः' (१।२३१) पस्य वः। प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० कहावणो । अथवा कर्षापणशब्दस्य कहावणो इति रूपं भवति ॥७१॥
दुःख-दक्षिण-तीर्थे वा ॥८॥२७२ ॥
एषु संयुक्तस्य हो वा भवति ॥ दुहं दुक्खं । 'परदुक्खे दुक्खिआ विरला । दाहिणो दक्खिणो । तूहं तित्थं ॥
[दुःखदक्षिणतीर्थे वा] दुःखं च दक्षिणश्च तीर्थं च = दुःखदक्षिणतीर्थम्, तस्मिन् = दुःखदक्षिणतीर्थे । सप्तमी ङि। वा प्रथमा सि ।
१. विरला जाणन्ति गुणे, विरला जाणन्ति ललियकव्वाई । सामन्नधणा विरला, परदुक्खे दुक्खिआ विरला ॥ [प्रा० भा०]