________________
२०६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
पक्ष्मन् → पम्हाइं । पम्हललोअणा । श्म-कुश्मानः → कुम्हाणो । कश्मीराः → कम्हारा । ष्म-ग्रीष्मः → गिम्हो । ऊष्मा → उम्हा । स्म-अस्मादृशः → अम्हारिसो । विस्मयः → विम्हओ । हम-ब्रह्मा → बम्हा । सुह्याः → सुम्हा । बम्हणो । बम्हचेरं । क्वचिन्न भवति - रश्मिः → रस्सी । स्मरः → सरो ॥
[पक्ष्मश्मष्मस्महमाम् ] पक्ष्म च श्मश्च ष्मश्च स्मश्च हम् च = पक्ष्मश्मष्मस्महमः, तेषाम् = पक्ष्मश्मष्मस्महमाम् । षष्ठी आम् ।
[म्हः ] म्ह प्रथमा सि ।
[पम्हाइं] पक्ष्मन् । अनेन क्ष्मस्य म्हः । प्रथमा जस् । 'अन्त्यव्यञ्जनस्य' (१।११) ग्लुक् । 'जस्-शस इ-इं०' (३।२६) जस्स्थाने इं - पूर्वस्य च दीर्घः - म्हा० पम्हाई।
[पम्हललोअणा] पक्ष्मललोचना । अनेन मस्य म्हः । 'क-ग-च-ज०' (१११७७) चलुक् । 'नो णः' (११२२८) ना० → णा० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् पम्हललोअणा ।
[कुम्हाणो] कुश्मान । प्रथमा सि । अनेन श्मस्य म्हः । 'नो णः' (१२२२८) न० → ण । 'अत: से?:' (३।२) सि० → डो० → ओ० कुम्हाणो।
[कम्हारा ] कश्मीर । 'आत् कश्मीरे' (१।१००) श्मी० → श्मा० । अनेन श्मा० → म्हा० । प्रथमा जस् । 'जस्शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) दीर्घः कम्हारा ।
[गिम्हो ] ग्रीष्म । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । 'हस्वः संयोगे' (१९८४) गी० → गि० । अनेन ष्मस्य म्हः । 'अतः से?:' (३२) सि० → डो० → ओ० गिम्हो ।
[उम्हा ] ऊष्मन् । 'हुस्वः संयोगे' (१९८४) ऊ० → उ० । अनेन ष्मस्य म्हः । 'पुंस्यन आणो राजवच्च' (३५६) इत्यतिदेशात् 'राज्ञः' (३।४९) आ० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् उम्हा । _ [अम्हारिसो] अस्मादृश । अनेन स्मस्य म्हः । 'दृशः क्विप्-टक्-सकः' (१।१४२) रि० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० →डो०- ओ० अम्हारिसो ।
[विम्हओ] विस्मय । अनेन स्मस्य म्हः । 'क-ग-च-ज०' (१।१७७) यलुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० विम्हओ ।
[बम्हा ] ब्रह्मन् । 'सर्वत्र०' (२।७९) लुक् । अनेन मस्य म्हः । 'पुंस्यन आणो राजवच्च' (३५६) इत्यतिदेशात् 'राज्ञः' (३।४९) आ० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् बम्हा ।
[सुम्हा] सुह्मन् । अनेन मस्य म्हः । 'पुंस्यन आणो राजवच्च' (३५६) इत्यतिदेशात् 'राज्ञः' (३।४९) आ० । प्रथमा सि । 'अन्त्यव्य०' (११११) स्लुक् सुम्हा ।
[बम्हणो] ब्राह्मण । 'सर्वत्र०' (२१७९) रलुक् । 'हस्वः संयोगे' (१९८४) बा० → ब० । अनेन मस्य म्हः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० बम्हणो ।
[बम्हचेरं] ब्रह्मचर्य । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । अनेन मस्य म्हः । 'ब्रह्मचर्ये चः' (११५९) च० → चे० । ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो र:' (२०६३) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः बम्हचेरं ।
क्वचिद् एतेषां म्भोऽपि भवति -