________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः ॥ ८।२।६३ ॥ एषु र्यस्य रो भवति || जापवादः ॥ बम्भचेरं । चौर्यसमत्वाद् बम्हचरिअं । तूरं । सुन्देरं । सोण्डीरं ॥
[ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीयें] ब्रह्मचर्यं च तूर्यं च सौन्दर्यं च शौण्डीयं च = ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीर्यम्, तस्मिन्, = ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीर्ये । सप्तमी ङि।
[र्यो रः] – षष्ठी ङस् । र प्रथमा ङि ।
[बम्भचेरं] ब्रह्मचर्य । 'सर्वत्र०' (२७९) लुक् । 'पक्ष्म-श्म-ष्म०' (२।७४) इत्यत्र क्वचिम्भोऽपि दृश्यते, ततो म्हस्थाने म्भः । 'ब्रह्मचर्ये चः' (१५९) च० → चे० । अनेन र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः बम्भचेरं ।
[बम्हचरिअं] ब्रह्मचर्य । 'सर्वत्र०' (२७९) लुक् । 'पक्ष्म-श्म-म०' (२७४) म्हः । 'स्याद्-भव्य-चैत्यचौर्यसमेषु यात्' (२।१०७) र-ययोविश्लेषं कृत्वा यात् प्राग् इकारः । 'लोकात्' (१।१।३) बम्हचरिय । 'क-ग-च-ज०' (११७७) यलुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः बम्हचरिअं ।
[तुरं] तूर्य । अनेन र्यस्य रः। प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः तूरं ।
[सुन्देरं] सौन्दर्य । 'उत् सौन्दर्यादौ' (१।१६०) सौ० + सु० । 'एच्छय्यादौ' (११५७) द० दे० । अनेन र्यस्य रः। प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सुन्देरं ।
[सोण्डीरं] शौण्डीर्य । 'औत ओत्' (१।१५९) शौ० → शो० । 'श-षोः सः' (१।२६०) शो० → सो० । अनेन यस्य रः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सोण्डार ॥६३।।
धैर्ये वा ॥ ८।२।६४ ॥ धैर्ये र्यस्य रो वा भवति ॥ धीरं धिज्जं ॥ सूरो सुज्जो इति तु सूर-सूर्यप्रकृतिभेदात् ॥ [धैर्ये वा] धैर्य सप्तमी ङि । वा प्रथमा सि ।।
[धीरं धिज्जं] धैर्य । 'ऐत एत्' (१११४८) धै० → धे० । 'ईद्धैर्ये' (१२१५५) धी० । अनेन वा र्यस्य रः। प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः धीरं ।
पक्षे-धैर्य । 'हुस्वः संयोगे' (१९८४) धै० → धि० । 'द्य-य्य-यां जः' (२।२४) र्यस्य जः । 'अनादौ०' (२२८९) जस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः धिज्जं ।
[सूरो] सूर । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० सूरो ।
[सुज्जो ] सूर्य । 'हुस्वः संयोगे' (१९८४) सू० → सु० । 'द्य-य्य-यां जः' (२०२४) यस्य जः । 'अनादौ०' (२।८९) जस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० सुज्जो ॥१४॥
एतः पर्यन्ते ॥ ८॥६५॥ पर्यन्ते एकारात् परस्य यस्य रो भवति ॥ पेरन्तो ॥ एत इति किम् ? पज्जन्तो ॥ . [एतः पर्यन्ते ] एत् पञ्चमी ङसि । पर्यन्त सप्तमी ङि ।
१. E.G. H. J. K. L. बम्हचेरं ।