________________
२०२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[पेरन्तो] पर्यन्त । 'वल्ल्यु त्कर-पर्यन्ता-ऽऽश्चर्ये वा' (११५८) प० → पे० । अनेन र्यस्य रः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० पेरन्तो।
[पज्जन्तो] पर्यन्त । 'द्य-य्य-यां जः' (२।२४) र्यस्य जः । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'अत: से?:' (३२) सि० → डो० → ओ० पज्जन्तो ॥६५॥
आश्चर्ये ॥ ८।२।६६ ॥ आश्चर्ये एतः परस्य यस्य रो भवति ॥ अच्छेरं ।। एत इत्येव - अच्छरिअं ॥ [आश्चर्ये ] आश्चर्य सप्तमी ङि।
[अच्छेरं] आश्चर्य । 'हुस्वः संयोगे' (१८४) आ० → अ० । 'वल्ल्युत्कर-पर्यन्ता-ऽऽश्चर्ये वा' (१५८) श्च० → श्चे० । 'हुस्वात् थ्य०' (२२२१) श्चस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वछस्य चः । अनेन र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अच्छेरं ।
[अच्छरिअं] आश्चर्य । 'हुस्वः संयोगे' (१९८४) आ० → अ० । 'हुस्वात् थ्य-श्च०' (२।२१) श्चस्य छः । 'अनादौ०' (२१८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'अतो रिआ-ऽर-रिज्ज-रीअं' (२०६७) र्यस्य रिअ आदेशः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः अच्छरिअं ॥६६॥
अतो रिआ-ऽर-रिज्ज-रीअं ॥ ८६७ ॥ आश्चर्ये अकारात् परस्य यस्य रिअ-अर-रिज्ज-रीअ इत्येते आदेशा भवन्ति ।। अच्छरिअं अच्छअरं अच्छरिज्जं अच्छरीअं ॥ अत इति किम् ? अच्छेरं ॥ [अतो रिआऽररिज्जरीअं] अत् पञ्चमी ङसि । रिअश्च अरश्च रिज्जश्च रीअश्च = रिआऽररिज्जरीअम् ।
[अच्छरिअं अच्छअरं अच्छरिज्जं अच्छीअं] आश्चर्य (४) । 'हुस्व: संयोगे' (१९८४) आ०(४) → अ०(४) । 'हुस्वात् थ्य-श्च०' (२।२१) श्च०(४) → छ०(४) । 'अनादौ०' (२१८९) छस्य(४) द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य (४) च:(४) । अनेन प्रथमे र्यस्थाने रिअ० । द्वितीये र्यस्थाने अर० । तृतीये र्यस्थाने रिज्ज० । चतुर्थे र्यस्थाने रीअ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अच्छरिअं अच्छअरं अच्छरिज्जं अच्छीअं।
[अच्छेरं] आश्चर्य । 'हुस्वः संयोगे' (१८४) आ० → अ० । 'वल्ल्युत्कर०' (१।५८) श्च० → श्चे० । 'हूस्वात् थ्यश्च०' (२२२१) श्चस्य छः । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'आश्चर्ये' (२०६६) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः अच्छेरं ॥६७॥
पर्यस्त-पर्याण-सौकुमार्ये लः ॥ ८।६८ ॥ पर्यस्त-पर्याण-सौकुमार्येषु र्यस्य ल्लो भवति ।
पर्यस्तं → पल्लढें - पल्लत्थं । पल्लाणं । सोअमल्लं ॥ पल्लङ्को इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च ॥ पलिअङ्को इत्यपि चौर्यसमत्वात् ॥
[पर्यस्तपर्याणसौकुमार्ये] पर्यस्तं च पर्याणं च सौकुमार्य च = पर्यस्तपर्याणसौकुमार्यम्, तस्मिन् = पर्यस्तपर्याणसौकुमार्ये । सप्तमी ङि ।
त्वात् ॥