________________
२००
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
पक्षे-ऊर्ध्व । 'हस्वः संयोगे' (१९८४) ऊ० → उ० । 'सर्वत्र०' (२६७९) र-वयोर्लुक् । 'अनादौ०' (२।८९) धस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वधस्य दः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः उद्धं ॥५९॥
कश्मीरे म्भो वा ॥ ८।२।६० ॥ कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारा कम्हारा ॥ [कश्मीरे म्भो वा] कश्मीर सप्तमी ङि । म्भ प्रथमा सि । वा प्रथमा सि ।
[कम्भारा कम्हारा] कश्मीर । अनेन वा श्मस्य म्भः । 'आत् कश्मीरे' (१११००) आत्वम् । प्रथमा जस् । 'जस्शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि-त्तो-दो-द्वामि दीर्घः' (३।१२) र० → रा० कम्भारा ।
पक्षे-कश्मीर । 'आत् कश्मीरे' (१।१००) श्मी० → श्मा० । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) श्म० → म्हः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) र० → रा० कम्हारा ॥६०॥
न्मो मः ॥ ८।२।६१ ॥ न्मस्य मो भवति ॥ अधोलोपाऽपवादः ॥ जम्मो । वम्महो । मम्मणं । [न्मो मः] न्म् षष्ठी ङस् । म प्रथमा सि ।।
[जम्मो] जन्मन् । अनेन न्मस्य मः । 'अनादौ०' (२१८९) मस्य द्वित्वम् । 'अन्त्यव्यञ्जनस्य' (१।११) नलुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० जम्मो ।
[वम्महो] मन्मथ । 'मन्मथे वः' (१२२४२) मस्य वः । अनेन न्मस्य मः । 'अनादौ०' (२।८९) मस्य द्वित्वम् । 'ख-घ-थ-ध-भाम्' (१११८७) थस्य हः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० वम्महो ।
[मम्मणं] मन्मन । अनेन न्मस्य मः । 'अनादौ०' (२१८९) मस्य द्वित्वम् । 'नो णः' (१२२२८) न० → ण । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२३) अनुस्वारः मम्मणं । अस्पष्टलपनम् ॥६१॥
ग्मो वा ॥ ८।२।६२ ॥ ग्मस्य मो वा भवति ॥ युग्मम् → जुम्मं जुग्गं । तिग्मम् → तिम्मं तिग्गं ।। [ग्मो वा ] ग्म् षष्ठी ङस् । वा प्रथमा सि ।
[जुम्म जुग्गं] युग्म । 'आर्यो जः' (११२४५) यस्य जः । अनेन वा ग्मस्य मः । 'अनादौ०' (२।८९) मस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः जुम्मं ।
पक्षे-युग्म । 'अधो म-न-याम्' (२।७८) म्लोपः । 'अनादौ०' (२१८९) गस्य द्वित्वम् । 'आदेर्यो जः' (१।२४५) यस्य जः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जुग्गं ।
[तिम्मं तिग्गं ] तिग्म । अनेन वा ग्मस्य मः । 'अनादौ०' (२१८९) मस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तिम्मं ।
पक्षे-तिग्म । 'अधो म-न-याम्' (२७८) मलोपः । 'अनादौ०' (२१८९) गस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः तिग्गं ॥६२।।