________________
अष्टमाध्यायस्य द्वितीयः पादः ।।
९९
ताम्रा-ऽऽने म्बः ।।८।२५६ ॥ अनयोः संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं । अम्बिर तम्बिर इति देश्यौ । [ ताम्राऽऽने म्बः] तानं च आनं च = ताम्राऽऽम्रम्, तस्मिन् = ताम्राऽऽम्र । सप्तमी ङि । म्ब प्रथमा सि ।
[तम्बं] ताम्र । 'हस्वः संयोगे' (१८४) ता० → त० । अनेन म्रस्य म्बः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तम्बं ।
[अम्बं ] आम्र । 'हस्वः संयोगे' (१९८४) आ० → अ० । अनेन प्रस्य म्बः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अम्बं । अम्बिर-तम्बिराविति देश्यौ आम्र-ताम्रवाचकौ द्वौ शब्दौ ॥५६॥
हो भो वा ॥ ८२५७ ॥ ह्वस्य भो वा भवति ॥ जिब्भा जीहा ॥ [ह्रो भो वा] (ह्वा) षष्ठी ङस् । भ प्रथमा सि । वा प्रथमा सि ।
[जिब्मा जीहा ] जिह्वा । अनेन वा ह्वस्य भः । 'अनादौ०' (२।८९) भस्य द्वित्वम् । 'द्वितीय-तुर्ययो० (२।९०) पूर्वभस्य बः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् जिब्मा । पक्षे-जिह्वा । 'ईर्जिह्वा-सिंह-त्रिंशतिशतौ त्या' (१।९२) जि० → जी० । 'सर्वत्र०' (२७९) व्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् जीहा ॥५७॥
वा विह्वले वौ वश्च ॥ ८।२।५८ ॥ विह्वले ह्वस्य भो वा भवति, तत्संनियोगे च विशब्दे वस्य वा भो भवति ॥ भिब्भलो विब्भलो विहलो ॥ [वा विह्वले वौ वश्च] वा प्रथमा सि । विह्वल सप्तमी ङि । वि सप्तमी ङि । व् षष्ठी ङस् । च प्रथमा सि ।
[भिब्भलो विब्भलो विहलो] विह्वल । अनेन ह्वस्य भः । 'अनादौ०' (२१८९) भस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वभस्य बः । अनेन वा विशब्दस्य भि० । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० भिब्भलो।
यत्र वेर्भो न स्यात् तत्र-विह्वल । अनेन ह्वस्य भः । 'अनादौ०' (२१८९) भस्य द्वित्वम् । 'द्वितीय-तुर्ययो.' (२२९०) पूर्वभस्य बः । प्रथमा सि । 'अत: से?ः' (३२) सि० → डो० → ओ० विब्भलो ।
यत्र किमपि न स्यात् तत्र-विह्वल । 'सर्वत्र०' (२७९) व्लुक् । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० विहलो ॥५८॥
वोचें ॥८२५९ ॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ।। उन्भं उद्धं ।। [वोर्वे] वा प्रथमा सि । ऊर्ध्व सप्तमी ङि ।
[उब्भं उद्धं ] ऊर्ध्व । 'हुस्वः संयोगे' (१९८४) ऊ० → उ० । अनेन वा व॑स्य भः । 'अनादौ०' (२८९) भस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वभस्य बः । प्रथमा सि । 'अतः सेोः' (३२) सि० → डो० → ओ० उब्भो। ('क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः उभं)।