________________
१९८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[पाडिप्फद्धी] प्रतिस्पर्धिन् । प्रथमा सि । 'सर्वत्र०' (२२७९) लुक् । 'अतः समृद्ध्यादौ वा' (१।४४) प० → पा० । 'प्रत्यादौ डः' (१।२०६) तस्य डः । अनेन स्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'अन्त्यव्यः' (१।११) नलुक् । 'अक्लीबे सौ' (३.१९) दीर्घः पाडिप्फद्धी ।
[बुहप्फई बुहप्पई ] बृहस्पति । 'वा बृहस्पतौ' (१।१३८) बृ० → बु० । बहुलाधिकारात् विकल्पेन स्पस्य फः । 'अनादौ०' (२२८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् बुहप्फई । पक्षे-बृहस्पति । 'वा बृहस्पतौ' (१।१३८) बृ० → बु० । 'क-ग-ट-ड-त-द०' (२७७) स्लु क् । 'अनादौ०' (२।८९) पस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् बुहप्पई ।
[निप्पहो] 'निष्प्रभ । निर्गता प्रभा यस्य सः । 'क-ग-ट-ड०' (२७७) षलुक् । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२८९) पस्य द्वित्वम् । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० निप्पहो ।
[निप्पुंसणं] निष्पुंसन । 'क-ग-ट-ड०' (२७७) षलुक् । 'अनादौ०' (२।८९) पस्य द्वित्वम् । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः निप्पुंसणं - स्फेटनम् ।
[परोप्परम् ] परस्पर । 'नमस्कार-परस्परे द्वितीयस्य' (२०६२) र० → रो० । 'क-ग-ट-ड०' (२७७) स्लुक् । 'अनादौ०' (२२८९) पस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः परोप्परम् ॥५३॥
भीष्मे ष्मः ॥ ८॥२॥५४॥
भीष्मे ष्मस्य फो भवति ॥ भिप्फो ॥
[भीष्मे ष्मः] भीष्म सप्तमी ङि । ष्म् षष्ठी ङस् । __[भिष्फो] भीष्म । प्रथमा सि । 'हस्वः संयोगे' (१।८४) भी० → भि० । अनेन ष्मस्य फः । 'अनादौ०' (२।८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'अतः सेोंः' (३२) सि० → डो० → ओ० भिष्फो ॥५४॥
___ श्लेष्मणि वा ॥ ८२५५ ॥ श्लेष्मशब्दे ष्मस्य फो वा भवति ॥ सेफो सिलिम्हो ॥ [श्लेष्मणि वा] श्लेष्मन् सप्तमी ङि । वा प्रथमा सि ।
[सेफो सिलिम्हो ] श्लेष्मन् । 'सर्वत्र०' (२६७९) ल्लुक् । 'श-षोः सः' (१।२६०) शस्य सः । अनेन वा ष्मस्य फः । 'अन्त्यव्य०' (१।११) नलुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सेफो । पक्षे-श्लेष्मन् । 'हुस्वः संयोगे' (१६८४) श्ले० → श्लि० । 'लात्' (२।१०६) श्-लियोविश्लेषं कृत्वा लात् प्राग् इ० । 'श-षोः सः' (१२२६०) शस्य सः । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) ष्मस्य म्हः । 'अन्त्यव्य०' (१।११) न्लुक् । प्रथमा सि । 'अत: से?:' (३२) सि० →डो० ओ० सिलिम्हो ॥५५॥ १. G निःप्रभ । G पाठां०- निष्प्रभ - क० ख० दी० ।