________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
१९७
संयोगे' (१९८४) आ० → अ० । अनेन त्मस्य प: । 'अनादौ०' (२।८९) पस्य द्वित्वम् । 'पुंस्यन आणो राजवच्च' (३।५६) नकारस्य आण० । 'समानानां०' (१२।१) दीर्घः । 'अतः से?:' (३२) सि० → डो० → ओ० अप्पाणो । पक्षे-आत्मन् । प्रथमा सि । 'हुस्वः संयोगे' (१९८४) आ० → अ० । 'अधो म-न-याम्' (२७८) मलोपः । 'अनादौ०' (२१८९) तस्य द्वित्वम् । आत्वम् । 'अन्त्यव्य०' (१११) स्लोपः अत्ता ॥५१॥
ड्म-क्मोः ॥ ८।२५२ ॥ ड्म-क्मोः पो भवति ॥ कुड्मलम् → कुंपलं । रुक्मिणी → रुप्पिणी । क्वचित् च्मोपि - रुच्मी रुप्पी ॥ [मक्मोः] ड्मश्च क्मश्च(क्म् च) = ड्मक्मौ, तयोः = ड्मक्मोः । षष्ठी ओस् ।
[कुंपलं] कुड्मल । प्रथमा सि । अनेन ड्मस्य पः । 'वक्रादावन्तः' (१।२६) अनुस्वारः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कुंपलं ।।
[रुप्पिणी] रुक्मिणी । अनेन क्मस्य पः । 'अनादौ०' (२१८९) पस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लोप: रुप्पिणी।
क्वचित् क्मस्य च्मोपि भवति -
[रुच्मी रुप्पी] रुक्मी । क्मस्य च्मो भविष्यति तदा रुच्मी । क्मस्य पः । 'अनादौ०' (२२८९) पस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्य०' (१११) स्लुक् रुप्पी ॥५२॥
ष्प-स्पयोः फः ॥ ८॥२५३ ॥ ष्प-स्पयोः फो भवति ॥
पुष्पम् → पुष्पं । शष्पम् → सफं । निष्पेषः → निफेसो । निष्पावः → निप्फावो । स्पन्दनम् → फन्दणं । प्रतिस्पधिन् → पाडिप्फद्धी ॥ बहुलाधिकारात् क्वचिद् विकल्पः - बुहप्फई बुहप्पई ॥ क्वचिन भवति - निप्पहो । निप्पुंसणं । परोप्परम् ॥
[ष्पस्पयोः फः] ष्पश्च स्पश्च = ष्पस्पौ, तयोः = ष्पस्पयोः । षष्ठी ओस् । फ प्रथमा सि ।
[पुष्फं] पुष्प । अनेन ष्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वफस्य पः। प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पुष्पं ।
[सफं] शष्प । प्रथमा सि । 'श-षोः सः' (१।२६०) शस्य सः । अनेन ष्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः सप्फं।
[निफेसो] निष्पेष । प्रथमा सि । अनेन ष्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'श-षोः सः' (१।२६०) षस्य सः । 'अत: से?:' (३।२) सि० → डो० → ओ० निष्फेसो ।
[निप्फावो] निष्पाव । प्रथमा सि । अनेन ष्पस्य फः । 'अनादौ०' (२१८९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य पः । 'अतः से?:' (३।२) सि० → डो० → ओ० निष्फावो ।
[फन्दणं] स्पन्दन । प्रथमा सि । अनेन स्पस्य फः । 'नो णः' (१२२२८) न० → ण । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२३) अनुस्वारः फन्दणं ।