________________
१९६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[वोत्साहे थो हश्च रः] वा प्रथमा सि । उत्साह सप्तमी ङि । थ प्रथमा सि । ह षष्ठी ङस् । च प्रथमा सि । र प्रथमा सि ।
[उत्थारो उच्छाहो] उत्साह । प्रथमा सि । अनेन वा त्सस्य थः - हस्य च रः । 'अत: से?:' (३२) सि० → डो० → ओ० उत्थारो । पक्षे - उत्साह । प्रथमा सि । 'हुस्वात् थ्य-श्च-त्स-प्सामनिश्चले' (२।२१) त्सस्य छः । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२९०) पूर्वछस्य चः । 'अतः से?ः' (३।२) सि० → डो० → ओ० उच्छाहो ॥४८॥
आश्लिष्टे ल-धौ ॥ ८२।४९ ॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल - ध इत्येतौ भवतः ॥ आलिद्धो ॥ [आश्लिष्टे लधौ] आश्लिष्ट सप्तमी ङि । लश्च धश्च = लधौ । प्रथमा औ।
[आलिद्धो] आश्लिष्ट । प्रथमा सि । अनेन श्लिस्य लिः - ष्टस्य च धः । 'अनादौ०' (२।८९) धस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२९०) पूर्वधस्य दः । 'अतः से?:' (३।२) सि० → डो० → ओ० आलिद्धो ॥४९॥
चिह्ने न्यो वा ॥ ८।२५० ॥ चिह्ने संयुक्तस्य न्धो वा भवति ॥ ण्हापवादः ॥ पक्षे- सोऽपि ॥ चिन्धं इन्धं चिण्हं ॥ [चिह्ने न्धो वा] चिह्न सप्तमी ङि । न्ध प्रथमा सि । वा प्रथमा सि ।
[चिन्धं इन्धं चिण्हं] चिह्न । प्रथमा सि । अनेन वा ह्रस्य न्ध आदेशः । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः चिन्धं । चिह्न । प्रथमा सि । प्रायोग्रहणात् 'क-ग-च-ज०' (१२१७७) आदेरपि चलुक् । अनेन ह्रस्य न्धः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः इन्धं । पक्षे-चिह्न । प्रथमा सि । 'सूक्ष्म-श्न-ष्ण-स्न-ह्र-ह्ण-क्षणां ण्हः' (२७५) ह्रस्य ग्रहः । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः चिण्हं ॥५०॥
भस्मा-ऽऽत्मनोः पो वा ॥ ८।२५१ ॥ अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भप्पा । अप्पा अप्पाणो । पक्षे-अत्ता ॥
[भस्माऽऽत्मनोः पो वा] भस्म च आत्मा च = भस्माऽऽत्मानौ, तयोः = भस्माऽऽत्मनोः । षष्ठी ओस् । प प्रथमा सि । वा प्रथमा सि ।
[भप्यो भस्सो] भस्मन । 'अन्त्यव्यः' (१।११) नलक। अनेन वा स्मस्य पः । 'अनादौ०' (२२८९) पस्य 'स्नमदाम-शिरो-नभः' (१।३२) पुंस्त्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० भप्यो । पक्षे - भस्मन् । 'अधो म-न-याम्' (२७८) म्लोपः । 'अनादौ०' (२१८९) सस्य द्वित्वम् । 'अन्त्यव्य०' (११११) नलुक् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० भस्सो । __ [अप्पा अप्पाणो अत्ता] आत्मन् । प्रथमा सि । 'हस्वः संयोगे' (१९८४) आ० → अ० । अनेन वा त्मस्य पः । 'अनादौ०' (२।८९) पस्य द्वित्वम् । 'पुंस्यन आणो राजवच्च' (३५६) इत्यतिदेशात् 'राज्ञः' (३।४९) इति आत्वम् । 'अन्त्यव्य०' (१।११) स्लुक् अप्पा । अन्यत्र कथितं अन्यत्र ज्ञाप्यते स अतिदेशः । पक्षे - आत्मन् । प्रथमा सि । 'हस्वः