________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
१९१
[कवड्डो] कपर्द । 'पो वः' (१।२३१) पस्य वः । अनेन र्दस्य डः । 'अनादौ०' (२।८९) डस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० कवड्डो ।
[मड्डिओ] मर्दित । प्रथमा सि । अनेन दि० → डि० । 'अनादौ०' (२।८९) डस्य द्वित्वम् । 'क-ग-च०' (१।१७७) तूलुक्। 'अतः से?:' (३२) सि० → डो० → ओ० मड्डिओ।
[संमडिओ] संमर्दित । प्रथमा सि । अनेन दि० → डि० । 'अनादौ०' (२।८९) डस्य द्वित्वम् । 'क-ग-च०' (१।१७७) त्लुक् । 'अतः से?:' (३२) सि० → डो० → ओ० संमड्डिओ ॥३६॥
गर्दभे वा ॥ ८॥२॥३७ ॥ गर्दभे र्दस्य डो वा भवति ।। गड्डहो । गद्दहो । [गर्दभे वा] गर्दभ सप्तमी ङि । वा प्रथमा सि ।
[गड्डहो गहहो] गर्दभ । प्रथमा सि । अनेन वा र्दस्य डः । 'अनादौ०' (२८९) डस्य द्वित्वम् । 'ख-घ-थ-धभाम्' (१।१८७) भस्य हः । 'अत: से?:' (३।२) सि० → डो० ओ० गड्डहो । पक्षे-गर्दभ । प्रथमा सि । 'सर्वत्र.' (२।७९) लुक् । 'अनादौ०' (२।८९) दस्य द्वित्वम् । 'ख-घ-थ-ध-माम्' (१।१८७) भस्य हः । 'अत: से?:' (३।२) सि० → डो० → ओ० गद्दहो ॥३७॥
कन्दरिका-भिन्दिपाले ण्डः ॥ ८।२।३८ ॥ अनयोः संयुक्तस्य ण्डो भवति ॥ कण्डलिआ । भिण्डिवालो ॥
[कन्दरिकाभिन्दिपाले ण्डः] कन्दरिका च भिन्दिपालश्च = कन्दरिकाभिन्दिपालम्, तस्मिन् = कन्दरिकाभिन्दिपाले । सप्तमी ङि । ण्ड प्रथमा सि ।
[कण्डलिआ ] कन्दरिका । प्रथमा सि । अनेन न्दस्य ण्डः । 'हरिद्रादौ लः' (१।२५४) रस्य लः । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् कण्डलिआ ।
[भिण्डिवालो] भिन्दिपाल । प्रथमा सि । अनेन न्दस्य ण्डः । 'पो वः' (१।२३१) पा० → वा० । 'अतः से?:' (३।२) सि० → डो० → ओ० भिण्डिवालो ॥३८॥
स्तब्धे ठ-ढौ ॥ ८।२।३९ ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठ-ढौ भवतः ॥ ठड्ढो ।। [स्तब्धे ठढौ] स्तब्ध सप्तमी ङि । ठश्च ढश्च = ठढौ । प्रथमा औ ।
[ठड्ढो] स्तब्ध । अनेन स्तस्य ठः - ब्धस्य च ढः । 'अनादौ०' (२८९) ढस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' पूर्वढस्य डः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० ठड्ढो ॥३९॥
___ दग्ध-विदग्ध-वृद्धि-वृद्धे ढः ॥ ८।२।४० ॥
एषु संयुक्तस्य ढो भवति ॥