________________
१९०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[इट्टाचुण ] इष्टा । 'क-ग-ट-ड०' (२७७) ष्लुक् । 'अनादौ०' (२१८९) टस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् इट्टा । चूर्ण । 'हुस्वः संयोगे' (१९८४) चू० → चु० । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) णस्य द्वित्वम् चुण्णं । इव । मिव - पिव - विव-व्व-व-विअ इवार्थे वा' (२।१८२) इवस्थाने व्व० ।
[संदट्टो] संदष्ट । प्रथमा सि । 'क-ग-ट-ड-त-द०' (२७७) षलुक् । 'अनादौ०' (२८९) टस्य द्वित्वम् । 'अतः से?:' (३२) सि० → डो० → ओ० संदट्टो ॥३४॥
गर्ते डः ॥ ८॥२॥३५ ॥ गर्तशब्दे संयुक्तस्य डो भवति ॥ टापवादः ॥ गड्डो । गड्डा ॥ [गर्ते डः] गत सप्तमी ङि । ड प्रथमा सि ।।
[गड्डो] गर्त । प्रथमा सि । अनेन तस्य डः । 'अनादौ०' (२।८९) डस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० गड्डो ।
[गड्डा ] गर्त । अनेन र्तस्य डः । 'अनादौ०' (२१८९) डस्य द्वित्वम् । 'स्वस्रादेर्डा' (३।३५) डा० । 'डित्यन्त्य०' (२।१।११४) डमध्याद् अलोपः । ‘लोकात्' (१।१।३) गड्डा । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् गड्डा ॥३५॥
संमर्द-वितदि-विच्छर्द-च्छर्दि-कपर्द-मर्दिते र्दस्य ॥ ८।२।३६ ॥ एषु र्दस्य डत्वं भवति ॥ समड्डो । विअड्डी । विच्छड्डो । छड्डुइ । छड्डी । कवड्डो । मड्डिओ । संमड्डिओ ॥
[संमर्दवितर्दिविच्छदच्छर्दिकपदमर्दिते ] संमर्दश्च वितर्दिश्च विच्छर्दश्च च्छर्दिश्च कपर्दश्च मर्दितश्च = संमर्दवितर्दिविच्छर्दच्छर्दिकपर्दमर्दितम्, तस्मिन् = संमर्दवितदिविच्छर्दच्छर्दिकपर्दमदिते । सप्तमी ङि ।
[दस्य ] र्द षष्ठी ङस् ।
[संमड्डो ] संमर्द । अनेन र्दस्य डः । 'अनादौ०' (२।८९) डस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० संमड्डो ।
[विअड्डी] वितदि । 'क-ग-च-ज०' (१।१७७) तुलुक् । अनेन र्दस्य डः । 'अनादौ०' (२१८९) डस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यञ्ज०' (१।११) स्लुक् विअड्डी । ___ [विच्छड्डो] विच्छर्द । अनेन र्दस्य डः । 'अनादौ०' (२१८९) डस्य द्वित्वम् । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० विच्छड्डो ।
[छड्डइ ] छर्दति । अनेन र्दस्य डः । 'अनादौ०' (२।८९) डस्य द्वित्वम् । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० छड्डइ।
[छड्डी ] छर्दि । अनेन र्दस्य डः । 'अनादौ०' (२।८९) डस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् छड्डी - वान्ति ।।
१. I. M. व । २. पा० म० - संदष्ट → संदष्ट । सन्दिष्ट → संदिट्ठ । ३. L. छर्द+णिग्+तिव् । 'णेरदेदा०' (३३१४९) णिगः अकारे। धा० पा० - धा० र० - क्रि० स० - पा० म० - छर्दयति ।