________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
१८३
साध्वस-ध्य-ह्यां झः ॥८।२।२६ ॥ साध्वसे संयुक्तस्य ध्य-ह्ययोश्च झो भवति ॥
सज्झसं । ध्य-बज्झए । झाणं । उवज्झाओ । सज्झाओ । सझं । विज्झो ॥ ह्य - सज्झो । मझं । गुज्झं । णज्झइ ॥
[साध्वसध्यह्यां झः] साध्वसं च ध्यश्च ह्य् च = साध्वसध्याः , तेषाम् = साध्वसध्यह्याम् ।। षष्ठी आम् । झ प्रथमा सि ।
[सज्झसं] साध्वस । प्रथमा सि । 'हुस्वः संयोगे' (११८४) सा० → स० । अनेन ध्वस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सज्झसं ।
[बज्झए] 'बध्यते । अनेन ध्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । “द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'त्यादीनामा०' (३।१३९) ते० → इ० बज्झए ।
[झाणं] ध्यान । प्रथमा सि । अनेन ध्यस्य झः । 'नो णः' (१।२२८) न० →ण । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः झाणं ।
[उवज्झाओ] उपाध्याय । प्रथमा सि । 'हुस्वः संयोगे' (१८४) पा० → प० । 'पो वः' (१२२३१) प० → व०। अनेन ध्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'क-ग-च-ज०' (१।१७७) य्लुक् । 'अतः सेोः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् उवज्झाओ ।
[सज्झाओ] स्वाध्याय । प्रथमा सि । 'सर्वत्र०' (२१७९) व्लुक् । 'हुस्वः संयोगे' (१८४) सा० → स० । अनेन ध्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२९०) पूर्वझस्य जः । 'क-ग-च-ज०' (१।१७७) यूलुक् । 'अतः से?:' (३२) सि० → डो० → ओ० सज्झाओ।
[सझं] साध्य । प्रथमा सि । 'हस्वः संयोगे' (१९८४) सा० → स० । अनेन ध्यस्य झः । 'अनादौ०' (२१८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः सज्झं ।
[विज्झो] विन्ध्य । प्रथमा सि । अनेन ध्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'अत: से?:' (३।२) सि० → डो० → ओ० विज्झो ।
[सज्झो ] सह्य । प्रथमा सि । अनेन ह्यस्य झः । 'अनादौ०' (२१८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२२९०) पूर्वझस्य जः । 'अतः सेोंः' (३२) सि० → डो० → ओ० सज्झो ।
[मज्झं] मह्य । प्रथमा सि । अनेन ह्यस्य झः । 'अनादौ०' (२१८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (०२३) अनुस्वारः मज्झं। मह्यं चतुर्थ्यन्तः संस्कृतसिद्धः ।
[गुज्झं] गुह्य । प्रथमा सि । अनेन ह्यस्य झः । 'अनादौ०' (२८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२३) अनुस्वारः गुज्झं ।
१. J. वध्यते । L. हन्+स्य+ते । संस्कृते वध्यते इति जाते । २. सर्वमुद्रितेषु विझो।