________________
१८४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[णज्झइ] 'णहीच बन्धने' (१२८५) णह् । 'पाठे धात्वा०' (२।३।९७) नह । वर्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'नो णः' (१।२२८) न० → ण । अनेन ह्यस्य झः । 'अनादौ०' (२।८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'त्यादीनामाद्य०' (३।१।३९) तिव्० → इ० णज्झइ । बध्नातीत्यर्थः ॥२६॥
ध्वजे वा ॥ ८।२।२७ ॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ ॥ [ध्वजे वा] ध्वज सप्तमी ङि । वा प्रथमा सि ।
[झओ धओ] ध्वज । प्रथमा सि । अनेन विकल्पेन ध्वस्य झः । 'क-ग-च-ज-त-द०' (१२१७७) ज्लुक् । 'अत: से?:' (३।२) सि० → डो० → ओ० झओ । पक्षे - ध्वज । प्रथमा सि । 'सर्वत्र-ल-व-रामवन्द्रे' (२७९) व्लुक् । 'क-ग-च-ज०' (१२१७७) जुलुक । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० धओ ॥२७॥
इन्धौ झा ॥ ८।२।२८ ॥ इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ समिज्झाइ । विज्झाइ ॥ [इन्धौ झा] इन्धि सप्तमी ङि । झा प्रथमा सि ।
[समिज्झाइ ] 'बिइन्धैपि दीप्तौ' (१४९८) इन्ध, सम्पूर्व० । वर्त० ते । अनेन न्धस्य झा० । 'अनादौ०' (२१८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वझस्य जः । 'त्यादीनामा०' (३।१३९) ते० → इ० समिज्झाइ ।
[विज्झाइ ] 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध्, विपूर्व० । वर्त० ते । 'लुक्' (१।१०) इलोपः । अनेन न्धस्य झा० । 'अनादौ०' (२२८९) झस्य द्वित्वम् । 'द्वितीय - तुर्ययोः' (२९०) पूर्वझस्य जः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० विज्झाइ ॥२८॥
वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कर्थिते टः ॥ ८।२।२९ ॥ एषु संयुक्तस्य टो भवति ॥ वट्टो । 'पवट्टो । मट्टिआ । पट्टणं । कवट्टिओ ।
[वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते] वृत्तश्च प्रवृत्तश्च मृत्तिका च पत्तनं च कर्थितश्च = वृत्तप्रवृत्तमृत्तिकापत्तनकथितम्, तस्मिन् = वृत्तप्रवृत्तमृत्तिकापत्तनकर्थिते । सप्तमी ङि ।
[टः] ट प्रथमा सि ।
[वट्टो] वृत्त । प्रथमा सि । 'ऋतोऽत्' (१।१२६) वृ० → व० । अनेन त्तस्य टः । 'अनादौ०' (२१८९) टस्य द्वित्वम्। 'अतः से?:' (३।२) सि० → डो० → ओ० वो।
[पवट्टो ] प्रवृत्त । प्रथमा सि । 'सर्वत्र०' (२१७९) लुक् । 'ऋतोऽत्' (१।१२६) वृ० → व० । अनेन तस्य टः । 'अनादौ०' (२।८९) टस्य द्वित्वम् । 'अतः से?:' (२३) सि० → डो० → ओ० पवट्टो ।
[मट्टिआ] मृत्तिका । प्रथमा सि । 'ऋतोऽत्' (१।१२६) मृ० → म० । अनेन त्तस्य टः । 'अनादौ०' (२१८९) टस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् मट्टिआ । १. G. H. I. K. L. M. पयट्टो । पा० म० - पवट्टो पयट्टो ।