________________
१८२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[जज्जो ] 'जिं अभिभवे' (८) जि । जेतुं शक्यः । ' शक्ताहे.' (५।४।३५) यप्र० । 'क्षय्य-जय्यौ शक्तौ' (४।३।९०) जय्यो निपात्यते । अनेन य्यस्य जः । 'अनादौ०' (२१८९) जस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० जज्जो ।
[सेज्जा ] शय्या । 'श-षोः सः' (१।२६०) श० → स० । 'एच्छय्यादौ' (१५७) । एत्त्वम् । अनेन य्यस्य जः । 'अनादौ०' (२।८९) जस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्य०' (११११) स्लुक् सेज्जा।
[भज्जा ] भार्या । 'हुस्वः संयोगे' (१८४) भा० → भ० । अनेन र्यस्य जः । 'अनादौ०' (२८९) जस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् भज्जा ।
[भारिआ] भार्या । 'स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्' (२।१०७) र-ययोविश्लेषं कृत्वा यात् प्राग् इकारः । 'लोकात्' (१।१।३) रि० । 'क-ग-च-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् भारिआ।
[कज्जं] कार्य । 'हुस्वः संयोगे' (१९८४) का० → क० । अनेन र्यस्य जः । 'अनादौ०' (२।८९) जस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कज्जं ।
- [वज्जं] वर्य । अनेन र्यस्य जः । 'अनादौ०' (२२८९) जस्य द्वित्वम् । प्रथमा सि । ' क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः वज्जं ।
[पज्जाओ] पर्याय । अनेन र्यस्य जः । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'अतः सेोंः' (३।२) सि० → डो० → ओ० पज्जाओ।
[पज्जत्तं] पर्याप्त । अनेन र्यस्य जः । 'हस्वः संयोगे' (१९८४) । जा० → ज० । 'अनादौ०' (२।८९) जस्य द्वित्वम्। 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० 1 'मोऽनु०' (१।२३) अनुस्वारः पज्जत्तं ।
[मज्जाया ] मर्यादा । प्रथमा सि । अनेन र्यस्य जः । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अवर्णो०' (१।१८०) आ० → या० । 'अन्त्यव्य०' (१।११) स्लुक् मज्जाया ॥२४॥
अभिमन्यौ ज-ौ वा ॥ ८।२।२५ ॥ अभिमन्यौ संयुक्तस्य जो अश्च वा भवति ।। अहिमज्जू । अहिमञ्जू । पक्षे-अहिमन्नू ॥ अभिग्रहणादिह न भवति - मन्नू ॥ [अभिमन्यौ जौ वा] अभिमन्यु सप्तमी ङि । जश्च अश्च = जौ । वा प्रथमा सि । .[अहिमज्ज अहिमा अहिमन्न] अभिमन्यु । प्रथमा सि । 'ख-घ-थ-ध-भाम' (१९८७) भस्य हः । न्यु० → जु० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अहिमज्जू। द्वितीये-अभिमन्यु । प्रथमा सि । 'ख-घ०' (१९८७) भस्य हः । अनेन वा न्यु० → अ० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अहिमञ्जू । पक्षे-अभिमन्यु । 'ख-घ-थ०' (१।१८७) भस्य हः । 'अधो म-न-याम्' (२।७८) यलुक् । 'अनादौ०' (२।८९) नस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अहिमन्नू ।
[मन्नू] मन्यु । प्रथमा सि । 'अधो म-न-याम्' (२१७८) यलुक् । 'अनादौ०' (२।८९) नस्य द्वित्वम् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक् मन्नू ॥२५॥