________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
१७५
हे अनन्यकगामिन् ! न विद्यते अन्यकगामित्वं यस्य सः = अनन्यकगामी, तस्य सम्बोधनम् । भवान् शान्तिः, परमं शिवं प्राप्तः । किंकृत्वा ? सकलां पृथ्वी भुक्त्वा-ततस्त्यक्त्वा । पुनः किंकृत्वा ? बुद्ध्वा-प्रतिबोधं प्राप्य । पुनः किंकृत्वा? तपः कृत्वा । किंभवान् ? विद्वान् इति गाथार्थः ।
[अणण्णयग्गामि !] अनन्यकगामिन् ! । 'नो णः' (१२२२८) न० → ण । 'अधो म-न-याम्' (२।७८) य्लुक्। 'नो णः' (१।२२८) न० → ण० । 'अनादौ०' (२८९) णस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१११८०) अस्य यः । 'सेवादौ वा' (२२९९) ('समासे वा' (२।९७) ) गस्य द्वित्वम् । 'अन्त्यव्य०' (१।११) न्लुक् । 'स्यम्-जस्-शसां लुक्' (४।३४४) स्लोपः अणण्णयग्गामि !।
[चइऊण] 'त्यजं हानौ' (१७२) त्यज् । त्यजनं पूर्वं = त्यक्त्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा० । 'त्योऽचैत्ये' (२०१३) त्यस्य चः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) चज इति स्थिते 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु' (३।१५७) अ० → इ० । 'क्त्वस्तुमत्तूण-तुआणाः' (२२१४६) क्त्वाप्रत्ययस्य तूणादेशः । 'क-ग-च-ज०' (१।१७७) त्लुक् चइऊण ।
[तवं] तपस् । द्वितीया अम् । 'अन्त्यव्य०' (११११) स्लुक् । 'पो वः' (१२२३१) पस्य वः । 'अमोऽस्य' (३१२) अमोऽकारलुक् । 'मोऽनु०' (१।२३) अनुस्वारः तवं ।
[काउं] 'डुकृग् करणे' (८८८) कृ । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वाप्रत्ययस्य तुमादेशः । 'आः कृगो भूत-भविष्यतोश्च' (४।२१४) कृ० → का० । 'क-ग-च-ज०' (१।१७७) तलुक् । 'मोऽनु०' (१।२३) अनुस्वारः काउं ।
[सन्ती] शान्ति । प्रथमा सि । 'श-षोः सः' (१।२६०) शा० → सा० । 'हुस्वः संयोगे' (१९८४) सा० → स० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) सलुक् सन्ती।
[पत्तो] प्राप्त । 'सर्वत्र०' (२७९) लुक् । 'हस्वः संयोगे' (१९८४) पा० → प० । 'क-ग-ट-ड०' (२२७७) प्लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० पत्तो ।
[सिवं] शिव । 'प्रथमा सि । 'श-षोः सः' (१।२६०) शस्य सः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सिवं । [परमं ] परम । 'प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः परमं ॥१५॥
वृश्चिके श्चेञ्जुर्वा ॥ ८।२।१६ ॥ वृश्चिके श्चेः स्वरस्य स्थाने शुरादेशो वा भवति ॥ छापवादः ॥ विचओ विंचुओ ॥ पक्षे - विछिओ ॥ [वृश्चिके श्चेञ्जुर्वा ] वृश्चिक सप्तमी ङि । श्चि षष्ठी ङस् । ञ्च प्रथमा सि । वा प्रथमा सि ।
[विञ्चओ विंचुओ] वृश्चिक । 'इत् कृपादौ' (१।१२८) वृ० → वि० । अनेन वा श्चि० → चुः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० विञ्चओ । 'ङ-ब-ण-नो व्यञ्जने' (१।२५) इत्यनेन बस्य अनुस्वारोऽपि भवति, तेन रूपद्वयम्, विंचुओ ।
१. J. L. द्वि० अम् । २. J. L. द्वि० अम् ।