________________
१७४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[त्वथ्वद्वध्वाम् ] त्वश्च थ्वश्च द्वश्च ध्व् च = त्वथ्वद्वध्वः, तेषाम् = त्वथ्वद्वध्वाम् । षष्ठी आम् । [चछजझाः] चश्च छश्च जश्च झश्च = चछजझाः । प्रथमा जस् ।
[क्वचित् ] क्वचित् प्रथमा सि ।
[भोच्चा] भुक्त्वा । 'ओत् संयोगे' (१।११६) भु० → भो० । 'क-ग-ट-ड०' (२१७७) क्लुक् । अनेन त्वा० → चा० । 'अनादौ०' (२।८९) चस्य द्वित्वम् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् भोच्चा ।
[णच्चा] ज्ञात्वा । 'हस्वः संयोगे' (१९८४) ज्ञा० → ज्ञ० । 'म्न-ज्ञोर्णः' (२२४२) ज्ञ० → ण । अनेन त्वा० → चा० । 'अनादौ०' (२।८९) चस्य द्वित्वम् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् णच्चा ।
[सोच्चा] श्रुत्वा । 'ओत् संयोगे' (१२११६) श्रु० → श्रो० । 'सर्वत्र०' (२१७९) लुक् । 'श-षोः सः' (१२२६०) शो० → सो० । अनेन त्वा० → चा० । 'अनादौ०' (२२८९) चस्य द्वित्वम् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् सोच्चा।
[पिच्छी ] पृथ्वी । 'इत् कृपादौ' (१।१२८) पृ० → पि० । अनेन थ्वस्य छः । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (४।२३९) पूर्वछस्य च: । प्रथमा सि । 'अन्त्य०' (३२७) स्लुक् पिच्छी ।
[विज्जं] विद्वान् । 'अन्त्यव्यः' (१।११) न्लुक् । अनेन द्वस्य जंः । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'वाऽव्ययोत्खातादावदातः' (१९६७) आकारस्य अत्वम् । प्रथमा सि । 'क्लीबे०' (३२) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः विज्जं ।
[बुज्झा] बुद्ध्वा । 'क-ग-ट०' (२७७) द्लुक् । अनेन ध्वस्य झः । 'अनादौ०' (२८९) झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य जः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् बुज्झा ।
[भोच्चा] भुक्त्वा । 'ओत् संयोगे' (१।११६) भु० → भो० । 'क-ग-ट०' (२७७) क्लुक् । अनेन त्वा० → चा० । 'अनादौ०' (२।८९) चस्य द्वित्वम् । प्रथमा सि । 'अव्ययस्य' (१।११) सिलुप् भोच्चा ।
[सयलं] सकला । द्वितीया अम् । 'शेषेऽदन्तवत्' (३।१२४) इति न्यायात् 'हुस्वोऽमि' (३।३६) इत्यनेन हुस्व:ला० → ल० । 'अमोऽस्य' (३५) अलोपः । 'मोऽनु०' (१२२३) अनुस्वारः सयलं ।
[पिच्छि] पृथ्वी । 'इत् कृपादौ' (१।१२८) पृ० → पि० । अनेन थ्वस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वछस्य च: । द्वितीया अम् । 'शेषेऽदन्तवत्' (३।१२४) इति न्यायात् 'इस्वोऽमि' (३।३६) च्छी० →च्छि० । 'अमोऽस्य' (३५) अलोप: पिच्छि ।
[विज्जं] विद्वस् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् । अनेन द्वस्य जः । 'अनादौ०' (२१८९) जस्य द्वित्वम् । बाहुलकात् 'वा स्वरे मश्च' (१।२४) इत्यनेन म्० । 'मोऽनु०' (१।२३) अनुस्वारः विज्जं ।
[बुज्झा] बुद्ध्वा । 'क-ग-ट०' (२७७) द्लुक् । अनेन ध्वस्य झः । 'अनादौ०' (२१८९) झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य जः । प्रथमा सि । 'अव्ययस्य' (३३२७) सिलुप् बुज्झा ।
सयलं पिच्छि विज्जं बुज्झा अणण्णयग्गामि ! । चइऊण तवं काउं संती पत्तो सिवं परमं ॥१॥