________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
१७३
कृत्ति-चत्वरे चः ॥ ८।२।१२ ॥ अनयोः संयुक्तस्य चो भवति ॥ किच्ची । चच्चरं ।। [कृत्तिचत्वरे चः] कृत्तिश्च चत्वरं च = कृत्तिचत्वरम्, तस्मिन् = कृत्तिचत्वरे । सप्तमी ङि । च प्रथमा सि ।
[किच्ची ] कृत्ति । 'इत् कृपादौ' (१।१२८) कृ० → कि० । अनेन तस्य चः । 'अनादौ०' (२।८९) चस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् किच्ची ।
[चच्चरं] चत्वर । अनेन त्वस्य च० । 'अनादौ०' (२२८९) चस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः चच्चरं ॥१२॥
त्योऽचैत्ये ॥ ८।२।१३ ॥ चैत्यवर्जिते त्यस्य चो भवति ॥ सच्चं । पच्चओ ॥ अचैत्य इति किम् ? चइत्तं ॥ [त्योऽचैत्ये] त्य् षष्ठी ङस् । न चैत्यम् = अचैत्यम्, तस्मिन् = अचैत्ये । सप्तमी ङि ।
[सच्चं ] सत्य । प्रथमा सि । अनेन त्यस्य चः । 'अनादौ०' (२२८९) चस्य द्वित्वम् । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः सच्चं ।
[पच्चओ] प्रत्यय । 'सर्वत्र०' (२।७९) लुक् । अनेन त्यस्य चः । 'अनादौ०' (२।८९) चस्य द्वित्वम् । 'क-गच-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० पच्चओ ।
[चइत्तं] चैत्य । 'अइदैत्यादौ च' (१।१५१) चै० → चइ० । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः चइत्तं ॥१३॥
प्रत्यूषे षश्च हो वा ॥ ८।२।१४ ॥ प्रत्यूषे त्यस्य चो भवति, तत्संनियोगे च षस्य हो वा भवति ॥ पच्चूहो पच्चूसो ॥ [प्रत्यूषे षश्च हो वा] प्रत्यूष सप्तमी ङि । ष षष्ठी ङस् । च प्रथमा सि । ह प्रथमा सि । वा प्रथमा सि ।
[पच्चूहो पच्चूसो] प्रत्यूष । 'सर्वत्र०' (२७९) लुक् । अनेन त्यस्य चः । 'अनादौ०' (२१८९) चस्य द्वित्वम् । अनेन वा षस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पच्चूहो । यत्र हकारो न स्यात् तत्रप्रत्यूष । 'सर्वत्र०' (२७९) लुक् । अनेन त्यस्य चः । 'अनादौ०' (२।८९) चस्य द्वित्वम् । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पच्चसो ॥१४॥
___ त्व-थ्व-द्व-ध्वां च-छ-ज-झाः क्वचित् ॥ ८।२।१५ ॥ एषां यथासंख्यमेते क्वचिद् भवन्ति ॥
भुक्त्वा → भोच्चा । ज्ञात्वा → णच्चा । श्रुत्वा → सोच्चा । पृथ्वी → पिच्छी । विद्वान् → विज्जं । बुद्ध्वा → बुज्झा ॥
'भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णयग्गामि । चइऊण तवं काउं संती पत्तो सिवं परमं ।।
१. [आ. श्रीदेवचन्द्रसूरिकृत-शान्तिनाथचरित्रे] भुक्त्वा सकलां पृथ्वी विद्वान् बुद्ध्वा अनन्यकगामी । त्यक्त्वा तपः कृत्वा शान्तिः प्राप्तः शिवं परमम् ॥