________________
१७२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
स्तम्भे स्तो वा ॥८॥२८॥
स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो थम्भो काष्ठादिमयः ॥ [ स्तम्भे स्तो वा ] स्तम्भ सप्तमी ङि । स्त् षष्ठी ङस् । वा प्रथमा सि ।
[खम्भो थम्भो] स्तम्भ । अनेन वा स्तस्य ख० । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० खम्भो । पक्षे-स्तम्भ । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तस्य थः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० थम्भो ॥८॥
थ-ठावस्पन्दे ॥ ८।२।९ ॥ स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थ-ठौ भवतः ॥ थम्भो । ठम्भो । स्तम्भ्यते → थम्भिज्जइ । ठम्भिज्जइ ॥
[थठावस्पन्दे] थश्च ठश्च = थठौ । प्रथमा औ । अस्पन्द सप्तमी ङि ।
[थम्भो ठम्भो] स्तम्भ । अनेन प्रथमे स्तस्य थः । द्वितीये स्तस्य ठः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० थम्भो ठम्भो ।
[थम्भिज्जइ ठम्भिज्जइ] 'स्तम्भू स्तम्भे' स्तम्भ इति सौत्रो धातुः । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'लोकात्' (११।३) स्तम्भ्यते इति स्थिते अनेन स्तस्य थः । 'ईअ-इज्जौ क्यस्य' (३।१६०) इत्यनेन क्यस्य इज्ज० । 'लोकात्' (१।१।३) थम्भिज्ज । 'त्यादीनामा०' (३।१३९) ते० → इ० थम्भिज्जइ । द्वितीये स्तम्भ्यते पूर्ववत् । ततोऽनेन स्तस्य ठः । शेषं तथैव । ठम्भिज्जइ ॥९॥
रक्ते गो वा ॥ ८॥२॥१०॥
रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ॥ [रक्ते गो वा] रक्त सप्तमी ङि । ग प्रथमा सि । वा प्रथमा सि ।
[रग्गो रत्तो] रक्त । अनेन वा क्तस्य गः । 'अनादौ०' (२१८९) गस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० रग्गो । पक्षे-रक्त । प्रथमा सि । 'क-ग-ट-ड०' (२७७) क्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । 'अत: से?:' (३।२) सि० → डो० → ओ० रत्तो ॥१०॥
शुल्के ङ्गो वा ॥ ८॥२॥११॥ शुल्कशब्दे संयुक्तस्य ङ्गो वा भवति ॥ सुङ्गं सुक्कं ॥ [शुल्के ङ्गो वा] शुल्क सप्तमी ङि । ङ्ग प्रथमा सि । वा प्रथमा सि ।।
[सुङ्गं सुक्कं] शुल्क । अनेन वा ल्कस्य ङ्गः । 'श-षोः सः' (१२२६०) शस्य सः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सुङ्गं । पक्षे - शुल्क । 'श-षोः सः' (१।२६०) शस्य सः । 'सर्वत्र लव-रामवन्द्रे' (२७९) ल्लोपः । 'अनादौ०' (२१८९) कस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सुक्कं ॥११॥