________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
शुष्क-स्कन्दे वा ॥८॥२५॥ अनयोः ष्क-स्कयोः खो वा भवति ॥ सुक्खं सुक्कं । खन्दो कन्दो ॥ [शुष्कस्कन्दे वा] शुष्कं च स्कन्दश्च = शुष्कस्कन्दम्, तस्मिन् = शुष्कस्कन्दे । सप्तमी ङि । वा प्रथमा सि । : .
[सुक्खं सुक्कं] शुष्क । प्रथमा सि । 'श-षोः सः' (१।२६०) शस्य सः । अनेन वा ष्कस्य खः । 'अनादौ०' (२१८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः सुक्खं । पक्षे-शुष्क । 'श-षोः सः' (१।२६०) शस्य सः । 'क-ग-ट-ड०' (२७७) ष्लुक् । 'अनादौ०' (२८९) कस्य द्वित्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सुक्कं ।
[खन्दो कन्दो] स्कन्द । अनेन वा स्कस्य खः । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो०→ ओ० खन्दो । पक्षेस्कन्द । 'क-ग-ट-ड०' (२१७७) स्लुक् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० कन्दो ॥५॥ .
क्ष्वेटकाऽऽदौ ॥ ८॥२६ ॥ श्वेटकाऽऽदिषु संयुक्तस्य खो भवति ॥
खेडओ ॥ श्वेटकशब्दो विषपर्यायः ॥ वोटकः , खोडओ । स्फोटक: → खोडओ । स्फेटकः → खेडओ। स्फेटिकः → खेडिओ ॥
[श्वेटकाऽऽदौ] श्वेटक आदौ यस्य सः = श्वेटकाऽऽदिस्तस्मिन् = श्वेटकाऽऽदौ । सप्तमी ङि ।
[खेडओ] श्वेटक । अनेन श्वस्य खः । 'टो डः' (१।१९५) टस्य डः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० खेडओ।
[खोडओ] वोटक । अनेन वो० → खो० । 'टो डः' (१।१९५) टस्य डः । 'क-ग-च-ज०' (२७७) क्लुक्। प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० खोडओ।
[खोडओ] स्फोटक । अनेन स्फो० → खो० । 'टो डः' (१।१९५) टस्य डः । 'क-ग-च-ज०' (१११७७) क्लुक्। प्रथमा सि । 'अतः सेोंः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यस्वरादेः' (२।१११४) अलुक् खोडओ।
[खेडओ] स्फेटक । अनेन स्फे० → खे० । 'टो डः' (१।१९५) टस्य डः । 'क-ग-च-ज०' (१।१७७) क्लुक्। प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२२११४) अलुक् खेडओ।
[खेडिओ] स्फेटिक । अनेन स्फे० → खे० । 'टो डः' (१९९५) टस्य डः । 'क-ग-च-ज०' (१२१७७) क्लुक्। प्रथमा सि । 'अत: सेझैः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२१२११४) अलुक् खेडिओ ॥६॥
स्थाणावहरे ॥ ८॥२७॥ स्थाणौ संयुक्तस्य खो भवति, हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति किम् ? 'थाणुणो रेहा ॥ [स्थाणावहरे ] स्थाणु सप्तमी ङि । अहर सप्तमी ङि।
[खाणू] स्थाणु । प्रथमा सि । अनेन स्था० → खा० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् खाणू ।
[थाणुणो रेहा] स्थाणु । षष्ठी ङस् । 'क-ग-ट-ड०' (२१७७) स्लुक् । 'ङसि-ङसोः पुं-क्लीबे वा' (३।२३) इत्यनेन ङस्स्थाने णो० । थाणुणो इति जातम् । रेखा । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) खस्य हः । 'अन्त्यव्य०' (११११) स्लुक रेहा इति सिद्धम् ॥७॥ १. उवरि-ट्ठिअ-चंदालोअ-पुंजिआ जअइ कंठ-मूलम्मि । सीस-च्छाय व्व विस-प्पहामई थाणुणो रेहा ॥ [ग० व० - ३८]
उपरिस्थितचन्द्रालोकपुञ्जिता जयति कण्ठमूले । शीर्षच्छायेव विषप्रभामयी स्थाणो रेखा ॥