________________
अष्टमाध्यायस्य प्रथमः पादः ॥
_ [वहुमुहं वहूमुहं] वधू-मुख (२) । वध्वा मुखम् । 'ख-घ-थ-ध-भाम्' (१।१८७) ध-खयोर्हः । अनेन क्वचिद् वा दीर्घस्य हुस्व: - हू० → हु० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः वहुमुहं वहूमुहं ॥४॥
पदयोः सन्धिर्वा ॥८॥१५॥ संस्कृतोक्तः सन्धिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ।। वासेसी वास-इसी । विसमायवो विसम-आयवो । दहीसरो दहि-ईसरो । साऊअर्थ साउ-उअयं ॥ पदयोरिति किम् ? पाओ । पई । वत्थाओ । मुद्धाइ मुद्धाए । महइ महए ॥ बहुलाधिकारात् क्वचिद् एकपदेऽपि - काहिइ काही । बिइओ बीओ ॥ [पदयोः सन्धिर्वा ] पद षष्ठी ओस् । सन्धि प्रथमा सि । वा प्रथमा सि ।
[वासेसी वास-इसी] व्यास-ऋषि (२) । व्यासश्चासौ ऋषिश्च = व्यासर्षिः । 'अधो म-न-याम्' (२।७८) य्लोपः । 'इत्कृपादौ' (१।१२८) ऋकारस्य इ० । अनेन वा सन्धिः । 'अवर्णस्ये०' (१।२।६) ए । 'श-षोः सः' (१।२६०) षि० → सि० । 'अक्लीबे सौ' (३।१९) दीर्घः - सि० → सी० । 'अन्त्यव्य०' (१।११) सलुक् वासेसी वास-इसी ।
[विसमायवो विसम-आयवो] विषम - आतप (२) । विषमश्चासावातपश्च = विषमाऽऽतपः । 'श-षोः सः' (१।२६०) ष० → स० । अनेन वा सन्धिः । 'समानानां०' (१२।१) दीर्घः-म० → मा० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । 'पो व:' (१।२३१) प० → व० । प्रथमा सि । 'अतः सेोः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२१११४) अलुक् विसमायवो विसम - आयवो ।
[दहीसरो दहि-ईसरो] दधि - ईश्वर (२) । दधिप्रधान ईश्वरः = दधीश्वरः । 'ख-घ-थ-ध०' (१।१८७) धस्य हः । अनेन वा सन्धिः । 'सर्वत्र ल-व०' (२।७९) व्लोपः । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् दहीसरो दहि - ईसरो।
[साऊअयं साउ - उअयं] स्वादु - उदक (२) । स्वादु च तदुदकं च = स्वादूदकम् । 'सर्वत्र ल-व०' (२।७९) व्लोपः । 'क-ग-च-ज०' (१।१७७) द्वयोर्दयोर्लुक् । अनेन वा सन्धिः । 'समानानां०' (१।२।१) दीर्घः - ऊ० । 'क-गच-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः साऊअयं साउ-उअयं ।
[पाओ] पाद । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अतः से?:' (३२) सि० → डो० → ओ०। 'डित्यन्त्य०' (२।१२११४) अलुक् पाओ ।
[पई ] पति । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः - ई० । 'अन्त्य०' (१।११) स्लु क् पई।
[वत्थाओ] वस्त्र । पञ्चमी ङसि । 'सर्वत्र ल-व०' (२७९) लुक् । 'स्तस्य थोऽसमस्त-स्तम्बे' (२।४५) स्तस्य थः। 'अनादौ शेषाऽऽदेशयोर्द्वित्वम्' (२८९) थस्य द्वित्वम् । 'द्वितीय - तुर्ययोरुपरि पूर्वः' (२९०) पूर्वथस्य तः । 'जस्-शस्ङसि०' (३।१२) त्थ० → त्था० । 'ङसेस्त्तो -दो०' (३।८) ङसि० → दो० । 'क-ग-च-ज०' (१।१७७) द्लुक् वत्थाओ।
[ मुद्धाइ मुद्धाए ] मुग्धा (२) । तृतीया टा । 'क-ग-ट-ड०' (२७७) ग्लुक् । 'अनादौ शेषा०' (२।८९) धस्य द्वित्वम् । “द्वितीय - तुर्ययो०' (२।९०) पूर्वधस्य दः । 'टा - डस् -डेरदा०' (३।२९) टा० → इ० - ए० मुद्धाइ मुद्धाए।