________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[महड़ महए ] 'काक्षु काङ्क्षायाम्' (५८०) काक्ष(२) । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः । 'काङ्क्षराहा-ऽहिलङ्घाऽहिलङ्ख-वच्च-वम्फ-मह-सिह-विलुम्पाः (४।१९२) काङ्क्ष० → मह० । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) मह० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० - ए० महइ महए।
[काहिइ काही ] 'डुकंग करणे' (८८८) कृ (२) । भवि० स्यति । 'भविष्यति हिरादिः' (३।१६६) हिरागमः । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इच् → इ० । 'आ: कृगो भूत०' (४।२१४) कृ० → का० । बहुलाधिकारात् क्वचिदेकपदेऽपि सन्धिः । 'समानानां०' (१।२।१) दीर्घः - ही० काहिइ काही ।
[बिइओ बीओ] द्वितीय (२) । 'क-ग-ट-ड०' (२७७) द्लुक् । 'क-ग-च-ज०' (१।१७७) त-ययोर्लुक् । 'समानानां०' (१।२।१) दीर्घः - बी० । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० बीओ । 'पानीयादिष्वित्' (१।१०१) ईत्० → इत्० बिइओ ॥५॥
न युवर्णस्याऽस्वे ॥८॥१६॥ इवर्णस्य उवर्णस्य च अस्वे वर्णे परे सन्धिर्न भवति ॥ न 'वेरि-वग्गे वि अवयासो । 'वंदामि अज्ज-वरं । दणुइन्द - रुहिर-लित्तो सहइ उइन्दो नह-प्पहावलि-अरुणो । संज्झा-वहु-अवऊढो णव-वारिहरो व्व विज्जुला-पडिभिन्नो ॥१॥ युवर्णस्येति किम् ? गूढोअर-तामरसाणुसारिणी ॥ अस्व इति किम् ? पुहवीसो ॥
[न युवर्णस्याऽस्वे] न प्रथमा सि । इवर्णश्च उवर्णश्च = युवर्णस्तस्य = युवर्णस्य । षष्ठी ङस् । 'न स्वः = अस्वस्तस्मिन् = अस्वे । सप्तमी ङि ।
[न वेरि-वग्गे वि अवयासो] न वैरिवर्गेऽपि अवकाशः । न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् न ।
अव्ययानि प्रायः संस्कृतसिद्धान्येव प्राकृतेऽपि ज्ञेयानि, अन्यथा अदन्तेषु 'अतः से?: (३२) इति डो प्राप्तिः । इदुदन्तेषु 'अक्लीबे सौ' (३।१९) इति दीर्घः प्राप्तिर्भवति ।
वैरिणां वर्गः = वैरिवर्गस्तस्मिन् = वेरिवग्गे । सप्तमी ङि । 'ऐत एत्' (१।१४८) वै० → वे० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ शेषा०' (२२८९) गस्य द्वित्वम् । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् वेरि-वग्गे । वैरिवर्गेऽपि संस्कृतसिद्धः । ‘पदादपेर्वा' (१।४१) अलुक् । 'पो व:' (१।२३१) पि० →
वि० । अवकाश । प्रथमा सि । 'क-ग-च-ज०' (१११७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'श___षोः सः' (१।२६०) श० → स० । 'अत: से?:' (३।२) सि० → डो० → ओ० अवयासो । अपि अवकाश इत्यत्र
अनेन सन्धिर्न भवति । १. भीअ-परित्ताण-मई पइण्णमसिणो तुहाहिरूढस्स । मण्णे संका-विहुरे ण वेरि-वग्गे वि अवसाओ ॥
[ग० व० - २२०] भीतपरित्राणमयीं प्रतिज्ञामसेस्तवाधिरूढस्य । मन्ये शङ्काविधुरे न वैरिवर्गेऽप्यवकाशः ॥ २. वंदामि अज्जधम्मं वंदे तत्तो य भद्दगुत्तं च । तत्तो य अज्जवइरं तव-नियमगुणेहिं वयरसमं ॥ वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं ॥
महावीरजैनविद्यालयप्रकाशिते नन्दिसूत्रे पृ०६ मध्ये ईदृशं टिप्पणं विद्यते - ११. अष्टाविंशतितमगाथानन्तरं शु० प्रतिं विना सर्वास्वपि सूत्रप्रतिषु गाथायुगलमिदमधिकमुपलभ्यते । ३. D. न स्वम् = अस्वम् ।