________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[जुवइअणो] युवति-जन । युवतिश्चासौ जनश्च = युवतिजनः । 'आदेर्यो जः' (१२२४५) यु० → जु० । 'क-गच-ज०' (१।१७७) त-जयोर्लुक् । 'नो णः' (१।२२८) न० → ण । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् जुवइज(अ)णो ।
[वारीमई वारिमई ] वारि-मति(२) । 'वारिणि मतिर्यस्य सः = वारिमतिः । अनेन क्वचिद्वा हुस्वस्य दीर्घः - रि० → री० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - इ० → ई० । 'अन्त्य०' (१।११) स्लुक् वारीमई वारिमई। __ [भुआयन्तं भुअयन्तं] भुज-यन्त्र(२) । 'क-ग-च-ज०' (१।१७७) ज-ययोर्लुक् । अनेन क्वचिद्विकल्पेन हुस्वस्य दीर्घः - अ० → आ० । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । प्रथमा सि। 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः भुआयन्तं भुअयन्तं ।
[पईहरं पइहरं] पति-गृह (२) । पत्युर्गृहं = पतिगृहम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'गृहस्य घरोऽपतौ' (२।१४४) गृह० → घर० । 'ख-घ-थ-ध-भाम् (१।१८७) घ० → ह० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः । अनेन वा हुस्वस्य दीर्घः - इ० → ई० पईहरं पइहरं ।
[वेलूवणं वेलुवणं] वेणु-वन (२) । वेणूनां - वंशानां वनं = वेणुवनम् । 'वेणौ णो वा' (१।२०३) णु० → लु० । 'नो णः' (१२२२८) न० →ण । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः। अनेन वा हूस्वस्य दीर्घः - लु० → लू० वेलूवणं वेलुवणं ।
[निअम्बसिलखलिअवीइमालस्स] नितम्बशिला - स्खलित-वीचि - मालस्य । 'नितम्बशिलायां स्खलिता वीचिमाला - कल्लोलमाला यस्य सः, तस्य = नितम्बशिलास्खलितवीचिमालस्य । 'क-ग-च-ज०' (१।१७७) तचयोर्लुक् । 'श-षोः सः' (१२२६०) शि० → सि० । अनेन दीर्घस्य हुस्वः - ला० → ल० । 'क-ग-ट-ड०' (२।७७) स्लुक् । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० निअम्बसिलखलिअवीइमालस्स ।
[जउँणयडं जउँणायडं] यमुना - तट (२) । यमुनायास्तटं = यमुनातटम् । 'आदेर्यो जः' (१।२४५) य० → ज० । 'यमुना - चामुण्डा - कामुका-ऽतिमुक्तके मोऽनुनासिकश्च' (१।१७८) म्लुक् - अनुनासिकश्च । 'नो णः' (११२२८) ना० → णा० । अनेन वा क्वचिद् दीर्घस्य हुस्वः - णा० →ण । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । 'टो डः' (१।१९५) टस्य डः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः जउँणयडं जउँणायडं ।
[नइसोत्तं नईसोत्तं] नदी - 'श्रोतस् (२) । नद्याः श्रोतः = नदीश्रोतः । 'क-ग-च-ज०' (१३१७७) द्लुक् । अनेन क्वचिद् वा दीर्घस्य हुस्व: - ई० → इ० । 'सर्वत्र ल-व०' (२२७९) रोप: । 'श-षोः सः' (१२२६०) शो० → सो०। 'तैलादौ' (२।९८) द्वित्वं-त० → त्त० । 'अन्त्यव्य०' (१।११) स्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः नइसोत्तं नईसोत्तं ।
[गोरिहरं गोरीहरं] गौरी-गृह (२) । गौर्या गृहम् । 'औत ओत्' (१३१५९) गौ० → गो० । अनेन वा क्वचिद् दीर्घस्य हुस्वः - री० → रि० । 'गृहस्य घरोऽपतौ' (२।१४४) गृह० → घर० । 'ख-घ-थ-ध-भाम्' (१।१८७) घस्य हः। प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः गोरिहरं गोरीहरं ।
१. G वारिमतिरिच्छाऽस्याऽसौ । २. D. नितम्बशिलाभिः । K. नितम्बशिलायाः० । ३. तैलादौ - स्रोतस् ।