SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १६१ [ दहमुहो दसमुहो] दशमुख । अनेन वा शस्य हः । 'ख-घ-थ-ध-भाम्' (१।१८७) खस्य हः । प्रथमा सि । अतः से?:' (३२) सि० → डो० → ओ० दहमुहो । पक्षे - दशमुख । 'श-षोः सः' (१।२६०) श० → स० । 'ख-घथ०' (१।१८७) खस्य हः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० दसमुहो।। [दहब(व)लो दसब(व)लो] दशबल । दशबलानि आगमप्रसिद्धानि क्षान्त्यादीनि अस्य सः = दशबलः । अनेन वा शस्य हः । 'बो वः' (१।२३७) बस्य वः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दहवलो । पक्षे-दशबल । 'श-षोः सः' (१।२६०) शस्य सः । 'बो वः' (११२३७) बस्य वः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दसवलो। ___ [दहरहो दसरहो ] दशरथ । अनेन शस्य हः । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दहरहो । पक्षे-दशरथ । 'श-षोः सः' (१२२६०) श० → स० । 'ख-घ-थ०' (११८७) थस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दसरहो । [दह दस] दश । अनेन वा शस्य हः । पक्षे-दश । 'श-षोः सः' (१।२६०) श० → स० दस । [एआरह] एकादश । 'क-ग-च-ज०' (१११७७) क्लुक् । 'संख्या-गद्गदे रः' (१।२१९) दस्य रः । अनेन शस्य ह: एआरह । [बारह] द्वादश । 'क-ग-ट-ड०' (२७७) द्लुक् । 'संख्या-गद्गदे र:' (१।२१९) दस्य रः । अनेन शस्य हः बारह । [तेरह] त्रयोदश । 'एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन' (१।१६५) त्रयो० → ते० । 'संख्या-गद्गदे र:' (११२१९) दस्य रः । अनेन शस्य हः तेरह । दशादयः शब्दाः संस्कृतसिद्धा ज्ञातव्याः । अन्यथा 'जस्-शस्-ङसि-त्तो-दो-द्वामि०' (३।१२) दीर्घः स्यात् । [पाहाणो पासाणो] पाषाण । अनेन वा षस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पाहाणो । पक्षे-पाषाण । 'श-षोः सः' (१।२६०) षा० → सा० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० पासाणो ॥२६॥ दिवसे सः ॥८।१।२६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो । [दिवसे सः] दिवस सप्तमी ङि । स् षष्ठी ङस् । [दिवहो दिवसो] दिवस । अनेन वा सस्य हः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० दिवहो । पक्षे-दिवस । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दिवसो ॥२६३॥ ___हो घोऽनुस्वारात् ॥ ८।१। २६४ ॥ अनुस्वारात् परस्य हस्य घो वा भवति । सिंघो सीहो । संघारो संहारो ॥ क्वचिदननुस्वारादपि-दाहो दाघो । [हो घोऽनुस्वारात्] ह् षष्ठी ङस् । घ प्रथमा सि । अनुस्वार पञ्चमी ङसि ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy