________________
१६०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[सामा ] श्यामा । प्रथमा सि । 'अधो म-न-याम्' (२७८) य्लुक् । अनेन शा० → सा० । 'अन्त्यव्य०' (१।११) स्लुक् सामा।
[सुद्धं ] शुद्ध । प्रथमा सि । अनेन शु० → सु० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सुद्धं ।
[दस ] दश । अनेन श० → स० । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् दस ।
[सोहइ ] 'शुभि दीप्तौ' (९४७) शुभ् । शोभते । अनेन शस्य स० । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० सोहइ ।
[विसइ] विशति । अनेन श० → स० । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० विसइ । [सण्डो] षण्ड । अनेन षस्य सः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० सण्डो ।
[निहसो] निकष । प्रथमा सि । 'निकष-स्फटिक-चिकुरे हः' (१।१८६) कस्य हः । अनेन षस्य सः । 'अतः से?:' (३२) सि० → डो० → ओ० निहसो ।
[कसाओ] कषाय । अनेन षा० → सा० । 'क-ग-च-ज०' (१।१७७) यलुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० कसाओ।
[घोसइ ] 'घुष शब्दे' (४९७) घुष् । घोषति । अनेन षस्य सः । 'त्यादीनामाद्यत्रय०' (३।१३९) ति० → इ० घोसइ।
[सेसो] शेष । प्रथमा सि । अनेन श-षोः सः । 'अतः से?ः' (३।२) सि० → डो० → ओ० सेसो ।
[विसेसो] विशेष । प्रथमा सि । अनेन श-षोः सः । 'अतः से?:' (३।२) सि० → डो० , ओ० विसेसो ॥२६॥
स्नुषायां ण्हो नवा ॥ ८।१।२६१ ॥ स्नुषाशब्दे षस्य ग्रहः णकाराक्रान्तो हो वा भवति ॥ सुण्हा सुसा ॥ [स्नुषायां ण्हो नवा] स्नुषा सप्तमी ङि । ण्ह प्रथमा सि । नवा प्रथमा सि ।
[सुण्हा सुसा] स्नुषा । 'अधो म-न-याम्' (२१७८) न्लोपः । अनेन वा षस्य ग्रहः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सुण्हा । पक्षे-स्नुषा । 'अधो म-न-याम्' (२।७८) न्लोपः । 'श-षोः सः' (१।२६०) षस्य सः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सुसा ॥२६१॥
दश-पाषाणे हः ॥८।१।२६२ ॥
दशनशब्दे पाषाणशब्दे च श-षोर्यथादर्शनं हो वा भवति ।।
दहमुहो दसमुहो । दहबलो दसबलो । दहरहो दसरहो । दह दस । एआरह । बारह । तेरह । पाहाणो पासाणो ॥
[ दशपाषाणे हः] दश च पाषाणश्च = दशपाषाणम्, तस्मिन् = दशपाषाणे । सप्तमी ङि । ह प्रथमा सि ।