________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१५९
[ ललाटे च ] ललाट सप्तमी ङि । च प्रथमा सि ।
[णिडालं णडालं] ललाट (२) । अनेन लस्य णः । 'पक्वा-ऽङ्गार-ललाटे वा' (१।४७) अतो वा इत्त्वम् । 'ललाटे ल-डोः' (२।१२३) इति व्यत्ययः । णिटाल इति स्थिते 'टो डः' (१।१९५) टस्य डः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः णिडालं णडालं ॥२५७।।
'शबरे वो मः ॥ ८।१।२५८ ॥ शबरे ब(व)स्य मो भवति ॥ समरो ॥ [शबरे वो मः] शबर सप्तमी ङि । व् षष्ठी ङस् । म प्रथमा सि ।
[समरो] शबर । 'श-षोः सः' (१।२६०) श० → स० । अनेन ब(व)स्य मः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० समरो ॥२५८॥
स्वप्न-नीव्योर्वा ॥ ८।१।२५९ ॥ अनयोर्वस्य मो वा भवति || सिमिणो सिविणो । नीमी नीवी ॥ [स्वप्नीव्योर्वा ] स्वप्नश्च नीवी च = स्वप्ननीव्यौ, तयोः = स्वप्ननीव्योः । वा प्रथमा सि ।
[सिमिणो सिविणो] स्वप्न । 'सर्वत्र ल-व-रामवन्द्रे' (२१७९) व्लुक् । 'इः स्वप्नादौ' (१।४६) स० → सि० । प-नयोविश्लेषं कृत्वा 'पो वः' (१।२३१) पस्य वः । 'स्वप्ने नात्' (२।१०८) इकारागमः । 'लोकात्' (१।१।३) वि० । अनेन वा वस्य मः । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सिमिणो । पक्षे-सिविणो । [नीमी नीवी ] नीवी (२) । अनेन वा वस्य मः । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् नीमी नीवी ॥२५९॥
श-षोः सः ॥ ८२६० ॥ शकार-षकारयोः सो भवति । श-सद्दो । कुसो । निसंसो । वंसो । सामा । सुद्धं । दस । सोहइ । विसइ । ष-सण्डो । निहसो । कसाओ। घोसइ ॥ उभयोरपि - सेसो । विसेसो । [शषोः सः] शश्च ष् च = शषौ, तयोः = शषोः । षष्ठी ओस् । स प्रथमा सि ।
[सद्दो] शब्द । अनेन श० → स० । 'सर्वत्र.' (२२७९) ब्लुक् । 'अनादौ०' (२१८९) दस्य द्वित्वम् । प्रथमा सि। 'अतः से?:' (३।२) सि० → डो० → ओ० सद्दो ।
[कुसो] कुश । प्रथमा सि । अनेन श० → स० । 'अत: से?:' (३।२) सि० → डो० → ओ० कुसो ।
[निसंसो ] नृशंस । 'ऋतोऽत्' (१।१२६) नृ० → न० ('इत् कृपादौ' (१।१२८) नृ० → नि०) । अनेन शं० → सं० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० निसंसो ।
[वंसो] वंश । प्रथमा सि । अनेन श० → स० । 'अतः से?ः' (३।२) सि० → डो० → ओ० वंसो। १. G पाठां० शबरे वो मः - दी० । ता० प्रतौ अत्र 'समरो' इत्युदाहरणस्योपरि 'बो वः' इति टिप्पितं वर्तते, तेन 'शबरे वो मः' इति पाठः सम्यक् प्रतिभाति ।