________________
१६२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[सिंघो सीहो ] सिंह । अनेन वा हस्य घः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सिंघो । पक्षे-सिंह । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलोपः । 'ईर्जिह्व-सिंह-त्रिंशद्विशतौ त्या' (१।९२) सि० → सी० । प्रथमा सि। 'अत: से?:' (३।२) सि० → डो० → ओ० सीहो ।
[संघारो संहारो] संहार (२) । अनेन वा हस्य घः । प्रथमा सि । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० संघारो । पक्षे-संहारो ।
क्वचिदननुस्वारादपि हस्य घत्वम् । यथा -
[दाहो दाघो] दाह । अनेन वा हस्य घः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० दाघो । पक्षे-दाहो ॥२६४॥
षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ ८।१।२६५ ॥ एषु आदेर्वर्णस्य छो भवति ॥ | छट्ठो । छट्ठी । छप्पओ । छम्मुहो । छमी । छावो । छुहा । छत्तिवण्णो ॥
[षट्शमीशावसुधासप्तपर्णेषु] षट् च शमी च शावश्च सुधा च सप्तपर्णश्च = षट्शमीशावसुधासप्तपर्णाः, तेषु = षट्शमीशावसुधासप्तपर्णेषु । सप्तमी सुप् । बहुवचनं षट्शब्दस्य प्रत्ययान्तस्यापि ग्रहणार्थम् ।
[आदेश्छः ] आदि षष्ठी ङस् । छ प्रथमा सि ।
[छट्ठो] षट् । षण्णां पूरणः = षष्टः । 'षट्-कति-कतिपयात् थट्' (७।१।१६२) थटप्र० → थ० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थस्य ठः । षट्संयोगे ष्टः षष्टः । अनेन षस्य छः । 'ष्टस्याऽनुष्ट्रष्टा०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः। प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० छटो ।
[छट्ठी] छट्ठ पूर्ववत् । प्रथमा सि । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङीप्रत्ययः । 'लुक् (१।१०) ठमध्याद् अस्य लुक् । 'लोकात्' (१।१।३) छट्ठी । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् छट्ठी ।
[छप्पओ] षट्पद । अनेन षस्य छ: । 'क-ग-ट-ड०' (२७७) लुक् । 'अनादौ०' (२८९) पस्य द्वित्वम् । 'कग-च-ज०' (१।१७७) द्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० छप्पओ ।
[छंमुहो] षण्मुख । अनेन षस्य छ: । 'ङ-ब-ण-नो व्यञ्जने' (१२५) अनुस्वारः । 'ख-घ-थ-ध-भाम् (१।१८७) खस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० छंमुहो।
[छमी] शमी । प्रथमा सि । अनेन शस्य छ: । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् छमी ।
[छावो] शाव । प्रथमा सि । अनेन शस्य छः । 'अतः सेोः' (३२) सि० , डो० → ओ० छावो ।
[ छुहा ] सुधा । प्रथमा सि । अनेन सस्य छः । 'ख-घ-थ०' (१।१८७) धस्य हः । 'अन्त्यव्य०' (१।११) स्लुक् छुहा।
[छत्तिवण्णो ] सप्तपर्ण । प्रथमा सि । अनेन सस्य छः । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । 'सप्तपणे वा' (१।४९) त्त० → त्ति० । 'पो वः' (११२३१) पस्य वः । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) णस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० छत्तिवण्णो ॥२६५॥