SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १५७ [चिलाओ ] किरात । 'किराते चः' (१।१८३) कस्य चः । अनेन रस्य लः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् चिलाओ। लिहा] परिखा । 'पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः' (११२३२) पस्य फः । अनेन रस्य लः । 'ख-घ-थ०' (१।१८७) खस्य हः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् फलिहा। [फलिहो ] परिघ । 'पाटि-परुष-परिघ०' (१।२३२) पस्य फः । अनेन रस्य लः । 'ख-घ-थ०' (१।१८७) घस्य हः । प्रथमा सि । 'अतः ?:' (३२) सि० → डो० → ओ० फलिहो । [फालिहद्दो] पारिभद्र । 'पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः' (१२२३२) पस्य फः । अनेन रस्य लः । 'ख-घ-थ०' (१।१८७) भस्य हः । 'द्रे रो नवा' (२६८०) लुक् । 'अनादौ०' (२१८९) दस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० फालिहद्दो । [काहलो] कातर । 'वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः' (१।२१४) तस्य हः । अनेन रस्य लः । प्रथमा सि। 'अतः से?ः' (३।२) सि० → डो० → ओ० काहलो । [लुक्को ] रुग्ण । अनेन रस्य लः । 'शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा' (२।२) ग्णस्य क० । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः सेोंः' (३।२) सि० → डो० → ओ० लुक्को । [अवद्दालं] अपद्वार । 'पो वः' (१२२३१) पस्य वः । 'सर्वत्र०' (२१७९) व्लुक् । 'अनादौ०' (२१८९) दस्य द्वित्वम् । अनेन रस्य लः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अवद्दालं । [भसलो] भ्रमर । 'सर्वत्र०' (२२७९) लुक् । 'भ्रमरे सो वा' (१२२४४) मस्य सः । अनेन रस्य लः । प्रथमा सि। 'अतः से?:' (३२) सि० → डो० → ओ० भसलो । [जढलं] जठर । 'ठो ढः' (१।१९९) ठस्य ढः । अनेन रस्य लः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जढलं । [वढलो] बठर । 'बो वः' (१।२३७) ब० → व० । 'ठो ढः' (१।१९९) ठस्य ढः । अनेन रस्य लः । प्रथमा सि। 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० वढलो । [निट्ठलो] निष्ठुर । 'ष्टस्या०' (२।३४) ष्ठस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० निट्ठलो । [चरणकरणं] चरणकरण । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः चरणकरणं । [भमरो] भ्रमर । प्रथमा सि । 'सर्वत्र०' (२१७९) लुक् । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् भमरो । बहुलाधिकारात् - [जढरं] जठर । प्रथमा सि । 'ठो ढः' (१।१९९) ठस्य ढः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जढरं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy